________________
कालिकाचार्यकथा । नीरधेरपि गम्भीरो, धीरो मो(मे)रुगिरेरपि । सोमादपि महासौम्या, प्रतापी तपनादपि ॥७॥ उदारस्फारशारः, परनारीसहोदरः ।। सत्यवाक् शरणाऽऽयातवजपारसंनिभः ॥८॥ विभिर्विशेषकम् ॥ कुमारोऽन्येशुरुधाने, गतः क्रीडाप्रसङ्गतः । गुणाकराचार्यगिरं, भुश्राव श्रवणामृतम् ॥९॥ अपारे भवकान्तारे, प्राणिनां भ्रमतां सताम् । कर्मलायवतोऽनया, जायते मानुषी गतिः ॥१०॥ इन्द्रजालोपमे जीवितव्ये द्रव्ये विनश्चरे । मतिर्भवति चारित्रे, केषाश्चिदपि धीमताम् ॥११॥ एवमादि गुरोवा(वा)णी, तूर्णमाकर्ण्य स व्रतम् । सरखत्या महासत्या, भगिन्या सममग्रहीत् ॥१२॥ गीतार्थो गुणसंयुक्ता, श्रीगुणाकरमूरिमिः ।। क्रमात् हरिपद(देऽ)स्थापि पापिनामपि बोधकत् ॥१३॥ तपो निष्कपटं कुर्वन् , भव्याली स विबोधयन् । विहरन् वसुधापीठे, जगामोजयिनी पुरीम् ॥१४॥ तस्योपवनसंस्थस्य, समायान्ति पुरीजनाः । धर्मवाणी रसेनाऽऽद्री, गीति श्रोतुं मृगा इव ॥१५॥ इतश्च देवयोगेन, तदा साध्वीसमागमः ।। बभूव तत्र जायेत, नान्यथा भवितव्यता ॥१६॥ अन्यदा बहिरुघाने, साक्षादिव सरस्वतीम् । सरखती सती प्रेक्ष्य, कामं कामलिताऽऽशयः ॥१७॥ ममाऽन्तःपुरयोग्येयमित्युक्त्वा मालवेश्वरः । गर्दभिल्लनृपो मिल्लसमानोऽशुभकर्मभिः ॥१८॥ दीनां चिल्लीमिर श्येनो, जानकीमिव रावणः । तामचाहरदन्यायपथपान्यः स पाषधी[:] ॥१९॥ विहला विललापे(पै), सती तेन हता सती । हा वीतरागसर्वज्ञ!, हा देव ! किं भविष्यति ॥२०॥ हा श्रीगुणाकराचार्य !, हा कालकसहोदर ।। हा तात वैरिसिंहाऽऽख्य !, हा मातः सुरमुन्दरि! ॥२॥ मदीयं चरणद्रव्यं, हरन्तं पश्यतोहरम् । निवारयति सर्वेऽपि, गर्दभिल्लं कुभूपतिम् ॥२२॥
"Aho Shrutgyanam"