________________
१७८
श्रीमाणिक्यसूरिविरचिता
दुष्पमारात्रिदीपाय, प्रतीपाय कुतीथिनाम् । अनर्थ्यगुणरत्नौधरोहणाय नमोऽस्तु ते ॥१४॥ श्रीकालकार्य प्रणिपत्य शक्रा, ___स्वस्यागमं झापयितुं मुनीनाम् । कृत्वाऽन्यथाद्वारमुपाश्रयस्य,
संपूर्णकामस्त्रिदिवं जगाम ॥१५॥ मत्वाऽऽयुरन्तं भगवानपि स्वं,
श्रीकालकार्योऽनशनं विधाय । विहाय कायं विधिवद् विधिज्ञ---
त्रिविष्टपस्याभरणं बभूव ॥९॥ श्रीजिनप्रभसूरीन्द्रः, स्वाङ्कपर्यकलालितः । जग्रन्थैतां कयां श्रीमबिनदेवमुनीश्वरः ॥९॥
इति श्रीकालिकसरिकथानकं समाप्तम् ।
[२०] श्रीमाणिक्यसूरिविरचिता कालकाचार्यकथा ॥
वन्दारुहरिमन्दारूममरीपिञ्जरक्रमम् । श्रीवर्द्धमानमानम्य, वक्ष्ये पर्युषणास्थितिम् ॥१॥ येन पर्युषणापर्व, चतुर्थीवासरे कृतम् । श्रीकालिकगुरोस्तस्य, कथ्यते मथिता कथा ॥२॥ जम्बूद्वीप इह द्वीपे, क्षेत्रे चात्रैव भारते । पुरमस्ति धरावासं, घरामण्डलमण्डनम् ॥३॥ आरामिकमिवाऽऽराम, पितेव निजसंततिम् । वैरिसिंहमहीपालस्तत्र पालयति प्रजाः ॥४॥ रोहिणीव शशाङ्कस्य, व्योमगङ्गेव वारिधः । भूचिशीलमियाऽऽलापा, मियाऽऽस्या(स्य) सुरसुन्दरी ॥५॥ सुमारः सुकुमाराङ्गः, कुमार इव विक्रमी । कालक्रमेण धर्मज्ञः, कालकाऽऽख्यस्तयोरभूत ॥६॥
"Aho Shrutgyanam"