________________
श्रीमाणिक्यसरिविरचिता
हाहारचं तमाकर्ण्य, ज्ञासोदन्तो मुनीश्वरः । नरेश्वरमुपागम्य, सम्यग् वाक्यमदोऽवदत् ॥२३॥ आकाशं स्फुटितं चेत् स्यानरेन्द्र ! किमु सीव्यते ।
त्यं कुतो यदि भवेश्चन्द्रादङ्गारवर्षणम् ॥२४॥ मलो वा यदि माणिक्ये निर्मलत्वं तदा कुतः । रक्षा कुतोऽस्ति कौष्माण्डिफलानि वृत्तिरेव चेत् ॥२५॥ तपोवनानि राजेन्द्ररक्षितानि भवन्ति यत् । व त्वमेव कथं देव !, कुरुषे धर्मगर्हितम् ॥२६॥ एवमुक्तस्तु नाऽमुश्चद्, यावच्चञ्चललोचनाम् । गर्दभिल्लोऽपि तल्लुन्धो, ल(लुब्धको हरिणीमिव ॥२७॥ सूरिभिः प्रहितः संघस्तावत् तद्बोधहेतवे । तेन कामैकदासेन, न सोऽपि गणितस्ततः ॥२८॥ श्रीमत्संघं जिनान्यं, परिज्ञायावमानितम् । निर्ममे निर्ममोऽप्येष, प्रतिज्ञामिति दुस्तराम् ॥२९॥ गर्दभिल्लं कुराजेन्द्रगजेन्द्र इव गर्दभम् । राज्यामोन्मूलयाम्येनं, चेन्नाई कालकस्तदा ॥३०॥ भूयन्तां लोकपाला दिगधिपतियुता ग्रामयक्षादयश्च,
' सामन्ता मन्त्रिणोऽमी घटमुभटभटाः श्रेष्ठिनः सार्थवाहाः । शालेनेव वेण्या कपिमिव कुनृपं राज्यतो गर्दभिल्लं,
धृत्वा नोत्पाटयेऽहं स्फुटमिह न तदा कालकाचार्य एषः ॥३॥ गच्छं विहाय स्वच्छन्द, भ्रमन्तं विकलाकतिम् । तं वीक्ष्य सचिवा राशः, पुरः प्रोचुरिदं वचः ॥३२॥ निजां खञ्जय मा कीति, स्वकुलं मा कलङ्कय । मा सेवस्वासतां मार्ग, मुश्च मुञ्च तपश्चि(स्विनीम् ॥३३॥ नृपो मेने न तद्वाक्यं, हस्तीवाशमुन्मु(न्म)दः । मर्यादां लङ्घयभब्धिरथवा केन वार्यते ? ॥३४॥ कुतोऽपि सातवृत्तान्तो, नगरीतो विनिर्गतः । क्रमालक्ष्मीलतामूलं, शककूलं मुनिर्गतः ॥३५॥ तत्र सामान्यराजानः, शाखिनः शतशाखिनः । तेषां शाखानुशाखीव, चक्रवर्ती प्रकीर्त्यते ॥३६॥ एकस्य सविवेकस्य, समीपे शाखिनः स्थिताः । गुरवः सोऽपि तैर्मन्त्रतत्वैरावर्जितो नृपः ॥३७॥ शाखानुशाखिनो दूतस्तस्यान्येधुर्महीभुजः । चरिको ढोकयामास, यमजिहामिवापराम् ॥३८॥
"Aho Shrutgyanam"