Book Title: Jain Jyotish
Author(s): Shankar P Randive
Publisher: Hirachand Nemchand Doshi Solapur
View full book text
________________
योजनान्युत्झम्यशनैश्च गश्चरंति । सएपज्योतिर्गणगोचरः नभोवकाशः दशपिकयोननशतबहुलः । तियासंख्यातद्वीपसमुद्रप्रमाणो धनोदधिपर्यन्तः ।
॥ उक्तंच ॥ णवदुत्तरसत्तमयादससीदिचदुतिगंचदुगचउकं ॥ तारारविससिरिक्खा बुहाग्गगुरुअंगिरारसणी ॥१॥
तत्राभिजित् सर्वाभ्यन्तरचारी। मूलः सर्वहिवारी भरण्यः सर्वाधश्चारिण्यः । स्वातिः सर्वोपरिचारी तप्ततपनीयममप्रभाणि लोहिताक्षमणिमयानि अष्टचत्वारिंशद्योजनकषष्ठिभागविष्कभायामानि तत्रिगुणाधिकपरिधीनि चतुविंशतियोजनकषष्टिभागबाहुल्यान्यर्धगोलकाकृतीनि षोडशभिर्देवसहसैरूढानि सूर्यविमानानिप्रत्येकं पूर्वदक्षिणोत्तरोत्परान् भागान् क्रमेण सिंह. कुंजरवृषभतुरंगरूपाणि विकृत्य चत्वारि चत्वारि देवमहस्राणि वहति । एषामुपरि सूर्याख्यादेवास्तेषां प्रत्येकं चतस्रोऽयमहिप्यः सूर्यप्रभा सुसीमा अर्चिमालिनी प्रभंकराचेति प्रत्येक देवीरूपचतुःसहसविकरणसमर्थाः । ताभिः सह दिव्यं सुखमनुभवतः संख्येयविमानशतसहस्राधिपतयः । सर्याः परिभ्रमति विमलमृणालवर्णान्यकमयानि चन्द्र विमानानि पटपंचाशयोजनकषष्ठिभागविष्कमायामान्यष्टाविंशतियोजनकषष्टिभागवाहुल्यानिप्रत्येक षोडशभिर्देवसहस्रः पूर्वादिषु दक्षु क्रमेण सिंहकुंजरवृषभाश्वरूपविभारिभिरूढानि । तेषामुपरि चन्द्राख्यादेवास्तेपा प्रत्येकं चत्स्रोग्रमहिप्यः चन्द्रप्रभा सुसीमा अर्चिमालिनी प्रभंकराचेति प्रत्येकं चतुर्दैवीरूपसहस्रविकरणपटवस्तामिः सह सुखमुपभुजंतश्चद्रमसोऽसंख्येयविमानशतसहस्राधिपतयः विहरति । अजनसमप्रभाण्यारिष्टमणिमयानि राहुविमानान्येकयोजनायामविष्कभाण्यर्द्धतृतीयधनुःशनबाहुल्यानि · नवमल्लिकाप्रमाणि · रनतपरिणामानिशुक्रविमानानिगव्यूतायामविष्कमाणि जात्यमुक्ताद्युतीनि अकमणिमयानि वृहस्पतिविमानानि देशोनगव्यूतायांमविष्कंभाणि । कनकमयान्यर्जुनवर्णानि बुधविमानानि तपनीयमयानि तप्ततपनीयाभानि शनै

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175