Book Title: Dhurtakhyan
Author(s): Haribhadrasuri, Jinvijay
Publisher: Saraswati Pustak Bhandar Ahmedabad

View full book text
Previous | Next

Page 121
________________ धूर्ताख्यानसंस्कृतभाषान्तरम् । कुम्भी' स कुम्भीनसवत् फुत्कारान् रोषतः सृजन् । मत्पृष्ठलमो भ्राम्यंश्च षण्मासीं तत्र वश्चितः ॥२२॥ ममैषोऽद्यापि नो पृष्ठं मुश्चतीति विचारवान् । ततोऽहं कुण्डिकाद्वारान्निरगां नरकादिव ।। २३ ॥ मत्पृष्ठे निःसरनेष सिन्धुरोऽपि मदोद्धरः । कुण्डिकारन्ध्रसंलमपुच्छकेशोऽस्खलत् क्षणम् ॥ २४ ॥ ततः स्वर्गनदी नारीमिब पीनपयोधराम् । दृष्ट्वा गोष्पदवत् तीवोऽध्यगां स्कन्दस्य मन्दिरम् ॥ २५ ॥ । अवधूय क्षुधोदन्ये षण्मासीं तत्र तिष्ठता। पतन्ती व्योमतो मूर्धा गङ्गाधारा मया धृता ।। २६ ॥ ततः षण्मुखमानत्याऽऽगत्य चोजयिनी पुरीम् । भवद्भ्यो धूर्तराजेभ्यः क्षेमेण मिलितोऽधुना ।। २७॥ इदं चेद् वित्थ सत्यं तन्मां मानयत हेतुभिः । अथालीकं सदाऽमीभ्यः सर्वेभ्यो दत्तभोजनम् ॥२८॥ [अथ कण्डरीकप्रदत्तमूलदेवकथानकोत्तरम् ।] कण्डरीकस्ततोऽवादीत् त्वामसत्यीकरोति कः । जानानो हि पुराणं च श्रीरामायण-भारते ॥ २९॥ ।" यत्त्वयाऽवाद्यऽहं सेभः कथं कुण्ड्याममान्तमाम् । तत्प्रत्ययाय विप्राणामत्रार्थे शृणु जल्पितम् ॥ ३० ॥ विधातुर्वदनाद् विप्राः क्षत्रिया बाहुयुग्मतः । ऊरूयुगलतो वैश्याः पद्भ्यां शूद्राश्च निर्ययुः ॥ ३१॥ यद्येतावन्ममौ लोको ब्रह्मणो जठरान्तरे । कमण्डलौ भवांस्तत् किं न मातीभसमन्वितः ।। ३२ ॥ अन्यच्च यस्य धावन्तौ ब्रह्म-विष्णू उपर्यधः । दिव्यवर्षसहस्रेणाप्याप्तो पारं न हि कचित् ॥ ३३ ॥ महत्प्रमाणं तल्लिङ्गमुमायोनौ यथा ममौ । तथा त्वां सगजं कुण्डयां प्रविष्टं कोऽत्र दूषयेत् ॥ युग्मम् ।। 15 अन्यञ्च कीचकशतोत्पत्तिर्या व्यासभाषिता । प्रसिद्धा भारते शास्त्रे तामप्येतर्हि संशृणु ॥ ३५ ॥ विराटभूपतेरप्रमहिषी पुत्रकाम्यया । ऋषि 'गागलिनामानमारराधान्यदाऽऽश्रमे ॥ ३६ ॥ साधयित्वा चरुं सोऽपि दत्त्वा तामिदमूचिवान् । अन्तः कुडपं भुक्तेऽस्मिन् सुतानां मावि ते शतम् ॥३७॥ ततो गत्वा कुडनान्तर्बुभुजे तमसौ चरुम् । तत्रस्थो गागलिरपि तप्यते स्म तपोऽधिकम् ॥ ३८ ॥ सरस्यप्सरसस्तत्र सान्तीर्वासोविवर्जिताः । निरीक्ष्य स ऋषिः स्मेरस्मरबाणैरवधृतः ॥ ३९ ॥ " कामक्षोभादस्य शुक्रविन्दुर्यः कीचकेऽपतत् । तस्मादायः कीचकोऽभून्महावीर्यवपूत्तमः ॥४॥ पश्यतोऽप्सरसस्तस्य गलिताः शुक्रबिन्दनः । नाल्यां ये पतितास्तेभ्यः कीचकामामभूछतम् ॥११॥ तां नाली स ऋषिस्तत्र निधाय स्वाश्रयं ययौ । राजाऽपि रक्षयामास ततो वंशकुडङ्गकम् ॥ ४२ ॥ नाल्याः संपूर्णसर्वाङ्गान् यद्राझी याददेऽर्भकान् । तेन ते तत्सुतत्वेन प्रोच्यन्ते कीचका जनैः ॥४३॥ कीचकानां शतं प्रौढं तादृग् नाल्यां ममौ यदि । ततस्त्वं सगजो मासि कथं नैव कमण्डलौ ? ॥४४॥ 18 गङ्गा वर्षसहस्रं चेजटास्वीशेन मोहिता । षण्मासांस्तु त्वयाऽमोहि हस्ती कुण्ड्यामिदं घृतम् ॥ ४५॥ कुण्ड्या नालादहं दन्ती लग्नकेशव निःसृतौ । कथमत्रापि हे भ्रातः ! शृणु पौराणिकं वचः॥४६॥ प्रलये सर्वभूतानां जलैकार्णवतां गते । जगत्रये जलेशायी तस्थावेको जलेशयः ॥ ४७ ॥ जगत्सृष्टिकृतस्तस्य नाभिपद्माद् विनिर्ययौ । दण्डकुण्डीधरो" ब्रह्माऽब्जनालं तत्र चालगत् ॥४८॥ इत्थं कुण्डीमुखाचेत् त्वं सेभो भ्रातर्विनिर्गतः । तत्केशस्तत्र लमश्च किमयुक्तं भवेत् ततः ॥४९॥ " कमण्डलुमुखाद् भ्रातः ! कथं हि निरगामिति । यद् षे तस्य संवादं शृणु भारतभाषितम् ॥ ५० ॥ 1B कुम्मीश। 2 B हुंकारान् । 3 B मत्पृष्टि। 4 A °णाध्याप्ती। 5A गङ्गलि। 6 B रविध्यत । 7 A °वदुत्तमः। 8 B स्मृतम्। 9A जलाशयः। 10 A कुण्डीकरो। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160