Book Title: Dhurtakhyan
Author(s): Haribhadrasuri, Jinvijay
Publisher: Saraswati Pustak Bhandar Ahmedabad

View full book text
Previous | Next

Page 129
________________ धूर्ताख्यानसंस्कृतभाषान्तरम् । [अथ खण्डपानाकृतं शशकथानकसमाधानम् । ] शशं स्माह महादक्षा खण्डपानाऽथ धूर्तिका । भारते सुप्रसिद्धोऽर्थः श्रुतो रामायणेऽपि सः ।। २५४ ॥ शशः प्राक्ष(ख्य)त् कचिदृष्टः श्रुतो वेग तिलद्रुमः । खण्डपानाऽपि तं प्रोचे श्रुतं किं न त्वया जनात् ।। यत्पाटलीपुरे माषवृक्षादति गरीयसी । भेरी व्यधायि केनापि तत् तिलद्रुर्न किं महान् ॥ २५६ ॥ 5 व्यूढा तैलनदीत्यत्राप्युत्तरं भारतं शृणु । यद्दन्तिदानसंभूता सरित् प्लावयते स्म गाम् ॥ २५७ ।। यत: तेषां कटतटभ्रष्टैगजानां मदविन्दुभिः । प्रावर्त्तत नदी घोरा हस्त्यश्वरथवाहिनी ।। २५८ ।। यदि दन्तिमदाम्भोभिरभूत् कूलंकषा नदी । तथा तैलान्न जायेत वाहिनी किं वाहिनी ? ॥२५९ ।। यञ्चोक्तं खलतैलादि भक्षितं तादृशं मया। तत्राप्याकर्ण योदन्तं भारतग्रन्थसंगतम् ।। २६० ।। 1" यद्राज्यान्निर्गतो भीम एकचक्रां पुरीं गतः । महाबलं बकं रक्षोराजं व्यापादयद् रुपा ।। २६१ ॥ सहस्रं मद्यकुम्भानां षोडशाशनखारिकाः । बकायोपस्थितान्येको भीमो भक्षितवांस्तदा ॥ २६२ ॥ एकाकिनाऽपि भीमेन पीतं भुक्तं च तद् यथा । तथैव संगतं तेऽथ भोजनं खल-तैलयोः ॥ २६३ ॥ पिबेद् घटसहस्राणि कुम्भकर्णः सदा यदि । दशतैलपटानां ते तदा पानं न चित्रकृत् ॥ २६४ ॥ अन्यञ्चैतत् पुराणेषु श्रूयते यदगस्तिना । दानवानां विनाशाय निपीतः क्षारवारिधिः ॥ २६५ ।। Is स्वोत्तीर्णा जटाजूटाच्छम्भोगङ्गा विनिर्गता । वहन्ती जहुसंज्ञस्य मुनेश्वाश्रममीयुषी ।। २६६ ।। तेन पीत्वा सहस्रं सा वर्षाणां भ्रामितोदरे । तन्मुक्ता पप्रथे लोके जाह्नवीत्यभिधानतः ॥ २६७ ॥ यदि ताभ्यामृषिभ्यां भोः ! पीते सिन्धुसुरापगे। दशतैलघटापानं तदा कस्ते न मन्यते ॥ २६८ ॥ गजचर्मदृतिस्तादृग् मयोडैकाकिना कथम् । ग्रामं नीता च तत्रेदं गरुडाख्यानकं शृणु ॥ २६९ ॥ काश्यपस्य ऋषेः पत्नयो द्वे कद्रू-विनताहये । ताभ्यां परस्परं चक्रे पणबन्धोऽन्यदेदृशः ॥ २७० ॥ " कार्य दास्यं तयाऽन्यस्या या पणेन विजीयते । अथवाऽत्र समानीय दातव्यममृतं द्रुतम् ॥ २७१ ॥ ततः कद्रा जिता दास्यं विनता तन्वती भृशम् । तया विमान्यते नित्यं सपत्नीति विरोधतः ॥२७२ ।। आजन्मदासभावेन विनता दुःखिताऽधिकम् । गर्भभारालसाङ्गी च सुषुवे साऽण्डकत्रिकम् ॥२७३ ।। औत्सुक्याद् दास्यमोक्षायैकस्मिन् भिन्ने तयाऽण्डके। वृश्चिकान्निर्गतान् वीक्ष्य विषादो विदधेऽधिकम् ॥ यस्या दैवहताया मे प्रसूतिरजनीदृशी । कथंकारमहं पारं तद् यास्ये दास्यवारिधेः ॥ २७५ ॥ 25 कालं कियन्तमप्येषा व्यतिक्राम्यातिदुःखिनी । आशानिबद्धवान्ताऽण्डं द्वितीयं विनताऽभिनत्॥२७६॥ तस्मादनूरुर्निर्गच्छन् सखेदं स्माह मातरम् । किमकाण्डे द्वितीयाण्डमौत्सुक्याद् घिमिदे त्वया॥२७७॥ अपूरयिष्यं तेऽवश्यमहं मातर्मनोरथान् । चेदजङ्गमकायो नाभविष्यं त्वदभाग्यतः ॥ २७८ ॥ तस्मात् तृतीयमण्डं त्वं चिरं रक्ष विचक्षणे! । अस्माद् यो भविता सूनुः स ते दुःख हरिष्यति॥७९॥ सोऽनूरुः सारथिश्चक्रे रथे किरणमालिना । विनताऽपि तृतीयाण्डं पूर्ण मत्वाऽभिदत् स्वयम् ॥२८॥ * तस्मादाविरभूद् भोगिकुलकालो महाबलः । गरुडो विनताखान्तमहोदधिसुधाकरः ॥ २८१ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160