Book Title: Dhurtakhyan
Author(s): Haribhadrasuri, Jinvijay
Publisher: Saraswati Pustak Bhandar Ahmedabad

View full book text
Previous | Next

Page 128
________________ ४. शशकथितं कथानकम् । ४१ २३३ ॥ विजिग्ये समरे येन तारकाख्यो महासुरः । महातेजाः स याम्यायां ब्रह्मावनकृते स्थितः ॥ २२८ ॥ पृथग्गर्भेषु जातानि यथङ्गान्यमिलन् प्रभोः । तान्येवैकत्र जातानि संगच्छेरन्न ते कथम् ॥ २२९॥ एलाषाढोऽवदलूनं परिभ्राम्यत् कथं शिरः । फलानि भुङ्क्ते सोल्लासमिति धूर्त्त वदाधुना ॥ २३० ॥ शशोऽप्यूचे श्रुते (तौ ?) किं न श्रुतं चक्रेण चक्रिणः । राहोध्छिनं शिरो भ्राम्यद् गिलत्यर्यम- शीतगू ॥ यश्च श्रूषे योजनानां शतमेकपदेन गाम् । उल्लङ्घय विषमं शैलमगां तत्रोत्तरं शृणु ॥ २३२ ॥ विष्णुर्यागे द्विजीभूय बलिं प्राप्य क्रमत्रयम् । सशैलकाननामुर्वीमाक्रम्यैनां जहार च ॥ विष्णुः क्रमत्रयेणाशु यद्याचक्राम मेदिनीम् । शतयोजनमात्रां तद्गतिं कस्ते न मन्यते ॥ शिला योजनमाना सा कथमुत्पादिता मया । इति पृच्छासमाधानं कुण्डली कुरु कर्णयोः ॥ २३५ ॥ रामायणे रणे जाते लक्ष्मणे शक्तिपातिते । हनुमान् द्राग् विशल्यार्थं द्रोणाद्रिमुदपीपतत् ॥ २३६ ॥ चेद् विशालशिलः शैलः प्रोत्क्षिप्तः कपिनाऽपि सः । तदा योजनमात्रा किं शिला नोत्पाट्यते त्वया ॥ २३७ ॥ ७ एलाषाढ: प्रतिक्षिप्तस्तेन प्रत्युक्तियुक्तिभिः । शशं स्माह त्वमप्याशु स्वानुभूतं वदाधुना ॥ २३८ ॥ ॥ इति धूर्ताख्याने तृतीयमेलाषाढकथानकम् ॥ २३४ ॥ [ ४. शशकथितं कथानकम् । ] ॐ सोऽप्यवादीदहं क्वापि प्रामे कौटुम्बिकोऽभवम् । क्षेत्रोपजीवी वर्षासु कृतवान् क्षेत्रकर्षणम्॥ २३९॥ शरत्कालागमे द्रष्टुं क्षेत्रं गिरितलस्थितम् । प्रामाद् दवीयः स्थानस्थं सानन्दो जग्मिवानहम् ॥ २४० ॥ नत्र शैलात् समुत्तीर्य शैलाभो मत्तकुञ्जरः । रुषाऽरुणेक्षणस्तूर्णमधावत् स ममोपरि ॥ २४९ ॥ तद्भिया कम्पमानाङ्गः परिभ्राम्यन्नितस्ततः । तिलवृक्षं पुरोऽद्राक्षं बद्धसख्यमिवाद्रिणा ॥ २४२ ॥ तच्छाखायां विलनं 'तु स मामाकृष्टुमक्षमः । तिलढुं धूनयामास पात्रानं क्षेत्रपालवत् ॥ २४३॥ पेतुस्तत्कम्पिताः पृथ्व्यां तिलौघास्तिलपादपात् । भ्रमता तेन ते चूर्णीकृत्वा च तिलयत्रवत् ॥ २४४ ॥ ततः प्रादुरभूत् तैलनदी कुण्डादिवापगा । यस्याः कल्लोलमालाभिर्जीयन्तेऽप्यूर्म योऽम्बुधैः ॥ २४५ ॥ 2 तैलपङ्के महादन्ती भृशं विरसमारसन् । निमग्नः क्षुत्तृषाक्रान्तो विपद्यत स कीटवत् ॥ २४६ ॥ पुनर्जातमिवात्मानं मन्वानो गजसङ्कटात् । प्रदोषेऽहं कथमपि तिलवृक्षादवातरम् ॥ २४७ ॥ ततस्तस्य मतङ्गस्य मया चर्ममपसार्य तत् । दृतीकृत्य च तैलेन पर्यपूरि समन्ततः ॥ २४८ ॥ तत्राहं बुडितो भुजे खलभारं क्षुधातुरः । पिबामि तैलकुम्भानां दशकं तृषितोऽनिशम् ॥ २४९ ॥ तां दृतिं तैलसम्पूर्णां स्कन्धे कृत्वाऽर्कतूलवत् । ग्रामं प्रत्यदितोऽध्वद्रावलम्ब्य गृहेऽगमम् ॥ २५० ॥ s अथ तां दृतिमानेतुं संकेतितमहातरौ । मया निजसुतः प्रैषि सोऽपि तां तत्र नैक्षत ।। २५१ ॥ ततः सपादपस्तेन प्रोन्मूल्य गजराजवत् । दृतिरानीयत ग्रामलोकानां पश्यतां गृहे ॥ २५२ ॥ अहमप्यात्मनो गेहादुत्थायात्र समागमम् । इत्यसत्यं वचश्चेन् मे तदेभ्यो दत्त भोजनम् ॥ २५३ ॥ 1 'ब्रहारक्षा' इति पाठान्तरम् । धू० ६ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160