________________
४. शशकथितं कथानकम् ।
४१
२३३ ॥
विजिग्ये समरे येन तारकाख्यो महासुरः । महातेजाः स याम्यायां ब्रह्मावनकृते स्थितः ॥ २२८ ॥ पृथग्गर्भेषु जातानि यथङ्गान्यमिलन् प्रभोः । तान्येवैकत्र जातानि संगच्छेरन्न ते कथम् ॥ २२९॥ एलाषाढोऽवदलूनं परिभ्राम्यत् कथं शिरः । फलानि भुङ्क्ते सोल्लासमिति धूर्त्त वदाधुना ॥ २३० ॥ शशोऽप्यूचे श्रुते (तौ ?) किं न श्रुतं चक्रेण चक्रिणः । राहोध्छिनं शिरो भ्राम्यद् गिलत्यर्यम- शीतगू ॥ यश्च श्रूषे योजनानां शतमेकपदेन गाम् । उल्लङ्घय विषमं शैलमगां तत्रोत्तरं शृणु ॥ २३२ ॥ विष्णुर्यागे द्विजीभूय बलिं प्राप्य क्रमत्रयम् । सशैलकाननामुर्वीमाक्रम्यैनां जहार च ॥ विष्णुः क्रमत्रयेणाशु यद्याचक्राम मेदिनीम् । शतयोजनमात्रां तद्गतिं कस्ते न मन्यते ॥ शिला योजनमाना सा कथमुत्पादिता मया । इति पृच्छासमाधानं कुण्डली कुरु कर्णयोः ॥ २३५ ॥ रामायणे रणे जाते लक्ष्मणे शक्तिपातिते । हनुमान् द्राग् विशल्यार्थं द्रोणाद्रिमुदपीपतत् ॥ २३६ ॥ चेद् विशालशिलः शैलः प्रोत्क्षिप्तः कपिनाऽपि सः । तदा योजनमात्रा किं शिला नोत्पाट्यते त्वया ॥ २३७ ॥ ७ एलाषाढ: प्रतिक्षिप्तस्तेन प्रत्युक्तियुक्तिभिः । शशं स्माह त्वमप्याशु स्वानुभूतं वदाधुना ॥ २३८ ॥ ॥ इति धूर्ताख्याने तृतीयमेलाषाढकथानकम् ॥
२३४ ॥
[ ४. शशकथितं कथानकम् । ]
ॐ
सोऽप्यवादीदहं क्वापि प्रामे कौटुम्बिकोऽभवम् । क्षेत्रोपजीवी वर्षासु कृतवान् क्षेत्रकर्षणम्॥ २३९॥ शरत्कालागमे द्रष्टुं क्षेत्रं गिरितलस्थितम् । प्रामाद् दवीयः स्थानस्थं सानन्दो जग्मिवानहम् ॥ २४० ॥ नत्र शैलात् समुत्तीर्य शैलाभो मत्तकुञ्जरः । रुषाऽरुणेक्षणस्तूर्णमधावत् स ममोपरि ॥ २४९ ॥ तद्भिया कम्पमानाङ्गः परिभ्राम्यन्नितस्ततः । तिलवृक्षं पुरोऽद्राक्षं बद्धसख्यमिवाद्रिणा ॥ २४२ ॥ तच्छाखायां विलनं 'तु स मामाकृष्टुमक्षमः । तिलढुं धूनयामास पात्रानं क्षेत्रपालवत् ॥ २४३॥ पेतुस्तत्कम्पिताः पृथ्व्यां तिलौघास्तिलपादपात् । भ्रमता तेन ते चूर्णीकृत्वा च तिलयत्रवत् ॥ २४४ ॥ ततः प्रादुरभूत् तैलनदी कुण्डादिवापगा । यस्याः कल्लोलमालाभिर्जीयन्तेऽप्यूर्म योऽम्बुधैः ॥ २४५ ॥ 2 तैलपङ्के महादन्ती भृशं विरसमारसन् । निमग्नः क्षुत्तृषाक्रान्तो विपद्यत स कीटवत् ॥ २४६ ॥ पुनर्जातमिवात्मानं मन्वानो गजसङ्कटात् । प्रदोषेऽहं कथमपि तिलवृक्षादवातरम् ॥ २४७ ॥ ततस्तस्य मतङ्गस्य मया चर्ममपसार्य तत् । दृतीकृत्य च तैलेन पर्यपूरि समन्ततः ॥ २४८ ॥ तत्राहं बुडितो भुजे खलभारं क्षुधातुरः । पिबामि तैलकुम्भानां दशकं तृषितोऽनिशम् ॥ २४९ ॥ तां दृतिं तैलसम्पूर्णां स्कन्धे कृत्वाऽर्कतूलवत् । ग्रामं प्रत्यदितोऽध्वद्रावलम्ब्य गृहेऽगमम् ॥ २५० ॥ s अथ तां दृतिमानेतुं संकेतितमहातरौ । मया निजसुतः प्रैषि सोऽपि तां तत्र नैक्षत ।। २५१ ॥ ततः सपादपस्तेन प्रोन्मूल्य गजराजवत् । दृतिरानीयत ग्रामलोकानां पश्यतां गृहे ॥ २५२ ॥ अहमप्यात्मनो गेहादुत्थायात्र समागमम् । इत्यसत्यं वचश्चेन् मे तदेभ्यो दत्त भोजनम् ॥ २५३ ॥
1 'ब्रहारक्षा' इति पाठान्तरम् ।
धू० ६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org