________________
धृतोप्यानसंस्कतभाषान्तरम् । कथायां रामभद्रस्य सीतापहरणे क्षणे । सेतुबन्धे कृते लकापुरी दाशरथौ गते ॥ १९५ ।। राम-रावणयोरिपोरे समरवितरे। दरब्धे क्षुब्धपाथोधौ सिंहनादस्फुटनगे ॥ १५६ ॥ लकेशभटनिर्मुक्तशेल्लवावल्लभल्लकः । शक्तिभिश्चासिभिश्छिन्नाङ्गोपाङ्गकपिसैनिके ।। ५९७ ॥ शक्तिप्रहारनिर्बद्धभूमिपतितलक्ष्मणे । रामप्रलापनिर्धापप्रतिशब्दितभूधरे ॥ १९८ ।। 5 द्रोणाद्रर्वायुपुत्रेण समानीतविशल्यया । सौमित्रेर्वक्षसः शक्तिर्निरगात् पापधीरिव ।। १९९ ॥
-चतुर्भिः कलापकम् । तया विशल्यया सिक्ताश्छिन्नाङ्गा अपि वानराः । सजीवाः सहसोत्तस्थुर्मिलितावयवव्रजाः ॥२०॥ छिन्नाङ्गा अपि चेजाताः सजीवाः प्रवगास्ततः । भवान् ग्वण्डीकृतः किं न भ्रातः ! प्राणिति संप्रति॥२०१॥ जगत्प्रसिद्धमन्यच्च कार्तिकेयम्य संभवम् । किं नाऔपीद् भवान् भूयो ग्रन्थेषु ग्रथितं बुधैः ।। २०२ ।। "हिमाचलगुहामध्ये मैथुनासन्कयोस्तयोः । गौरी-शङ्करयोजज्ञे दिव्यं वर्षसहस्रकम् ।। २०३ ॥ तस्मिन्नवसरे देवास्तारकासुरपीडिताः । अशक्तास्तद्वधेऽन्योन्यं पर्यालोचं वितेनिरे ।। २०४॥ शंभोर्वीय विना नान्यस्तारकं हन्तुमीश्वरः । स तु शंभुः संलीनोऽस्ति दर्या हिमभूभृतः ॥ २०५ ।। मिया कोऽपि न तत्पावं शायन्यो ह्यनलं विना । अतः प्रार्थ्यते गन्तुमिति ते तं बभाषिरे॥ २०६॥ परोपकारिणः कार्यमेकस्या" प्रकुर्वते । विशिष्य सर्वदेवानां कृत्ये कः स्यात् पराङ्मुखः ॥ २०७ ।। । यदर्थमखिला देवा ममाश्चिन्तामहार्णवे। तत्रानल ! भवानेव गन्तुमीशो न चापरः ॥ २०८॥ तद् गत्वा दर्शयात्मानं हिमाद्रिस्थस्य शूलिनः । कदाचित् त्वां विलोक्येशः स्मरक्रीडां विमुञ्चति ॥२०९॥ हव्यवाहोऽथ तानूचे कः शंभोः संमुखं व्रजेत् । विशिष्येहगवस्थस्य तस्य श्रेयोऽभिलाषुकः ।। २१०॥ खट्वाङ्गधारिणं शूलपाणिं नरकपालिनम् । श्मशानवासिनं कस्तमभिगच्छेजिजीविषुः ॥ २११ ॥ ऊर्द्धमुल्लास्य यो लिङ्गं ताण्डवेन प्रनृत्यति । बलारिरपि तत्पावं गन्तुमीशो भवेन्न हि ॥ २१२ ॥ ० कदाचित् कन्दरान्तस्थं शूलपाणिनिहन्ति माम् । तदा मे का गतिः स्यात् तन्न मां प्रेषयतामराः!॥२१३॥ तेऽप्यूचुर्मा स्म भैषीस्त्वं यतोऽयं पार्वतीवशः । नूनं जगदिदं सम्यग् दम्यते प्रमदाजनैः ॥ २१४ ।।
__उक्तं चमासेन दम्यते वाजी वर्षेणोन्मत्तकुञ्जरः । निमेषोन्मेषमात्रेण पुमांस्तु प्रमदाजनैः ॥ २१५॥
यदेव रोचते गौर्यास्तदेव कुरुते हरः। किं नानल ! त्वया दृष्टोऽङ्गेि तामुद्वहन्नयम् ॥ २१६ ॥ 11 अतस्त्यज त्वमाशङ्कामेतां यत् कुपितो हरः । न कर्ता भवतः पीडां गौरीस्वान्तानुवृत्तये ॥ २१७ ॥
एवमस्त्विति गत्वाऽमिहिमवत्कन्दरान्तरे । प्रेक्षत त्रिपुरारातिं रतिलीलाविसंस्थुलम् ॥ २१८ ॥ तमुपान्तगतं दृष्ट्वा रुषोत्तिष्ठन् हरस्ततः । हुं हुं गौर्या निषिद्धः स ऊर्द्धलिङ्गोऽनलं जगौ ॥ २१९ ॥ मुखं व्यादेहि रे ! रेतः पिबेत्यथ वदन् हरः। तत् तस्मै पाययामास भानुतेज इवोल्वणम् ।। २२० । रेतसादामानोऽग्निः कथञ्चित् प्राप्य वारिधिम् । तद् ववाम ततःसोऽपि बभूव सुखितो मनाक्॥२२१॥ ॥ ततः प्रभृति लोकेषु श्रूयते रत्नसन्ततिः । समुद्रे रेतसो जाता प्रस्फुरत्तेजसाञ्चिता ॥ २२२ ॥
अथ- प्रभाकरे पद्मभासुरे शिशिराम्भसि । अग्निस्तद्रेतसः शेषं वान्त्वा शीतोऽभवत्तराम् ॥ २२३ ॥ तत्र षण्णां कृत्तिकानां स्नान्तीनां स्मरमन्दिरे । तस्मिन् शुक्रे प्रविष्टेऽभूत् समकं गर्भसंभवः ॥२२४ ॥ कालान्तरे सुषुविरे युगपत् कृत्तिकास्ततः । शीर्ष बाहू उरो रुण्डं शरीरं च क्रमादिमाः ॥ २२५ ॥ ततस्ता विस्मितस्वान्ता दर्शयाश्चक्रिरे मिथः । यावत्तावत् किलाङ्गानि मिमिलुस्तानि सूतवत् ॥ २२६ ॥ - स्वस्वस्थानासंयोगात् कार्तिकेयः षडाननः । आसीदाशैशवादेषोऽजिमब्रह्मतोल्वणः ॥ २२७ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org