________________
३. एलबाडाकथितं कथान कम । सूर्योदयेऽथ कोलीस्य बदरास्वादि सहिदहरः । खजील मिति विज्ञायाऽऽदविरे नागरा नराः ॥ १६६ ॥ अङ्गोपाङ्गानि सर्वाणि संपिण्ड्योपरि तन्यधुः । ततोऽहं रूपलावण्यभागभूवंतरां पुनः ।। १६७ ।। मयार्य स्वानुभूतोऽर्थः प्रत्यपादि भवत्पुरः । यो न मन्येत तहत्ता धूर्तानां सोऽद्य भोजनम् ॥ १६८ ।।
[अथ शशकृतं एलाषाढकथानकसमाधानम् । ]
शशोऽबोपदयो कस्तेऽलोकं कुर्यादिदं वचः । प्रमाणितं पुरावृत्त-स्मृति-रामायणेषु यत् ॥ १६९ ।।
तथा हियमदग्मिऋषिः पूर्वमभूद् भार्याऽस्य रेणुका । यां मुस्तरवः पुष्पार्थिनः शीलप्रभावतः ॥ १७० ।। अथाश्वापहृतं दृष्ट्वा नृपं सर्वाङ्गसुन्दरम् । रेणुका समभूत् तत्र रागादाश्लेषशालिनी ॥ १७१ ॥ अथानमस्यतो वृक्षान् वीक्ष्य शीलच्युतां च ताम् । मन्वानो यमदग्निाक पशुरामं समादिशत्॥ १७२ ॥ स्वमातुरस्याः पापायाश्छिन्धि शीर्ष स्वपशुना । तेनापि पितुरादेशस्तथैव विदधे क्षणात् ॥ १७३ ॥ " यमदमिस्तदा तुष्टो रामं स्माह वरं वृणु । सोऽप्यूचे तात ! मे माता पुनर्जीवतु सत्वरम् ।। १७४ ।। एवमस्त्विति तेनोक्ते सजीवाऽजनि रेणुका । सद्भूतं चेदिदं प्रातर् ! जीवितस्त्वमपीह तत् ।। १७५ ।। जरासन्धोऽपि भूपालः खण्डद्वितययोजनात् । जरया सन्जितो राजसहस्राधीश्वरोऽजनि ॥ १७६ ॥ अन्यच्च श्रूयते सुन्द-निसुन्दौ द्वौ सहोदरौ । असुरौ सुरवृन्दस्य क्षयकालवदुत्थितौ ॥ १७७ ॥ पर्यालीच्याथ गीर्वाणैस्तद्वधाय तिलोत्तमा । तिलं तिलं स्वदेहेभ्य उपादाय विनिर्ममे ॥ १७८ ॥ सर्वाङ्गसुन्दराकारा मोहिनी सर्वकामिनाम् । प्रणम्य सा सुरान् स्माह सुधामधुरया गिरा ॥ ११ ॥ यत्कर्त्तव्यं मया देव तदादिशत तेऽपि ताम् । प्रोचुरुद्धर वः सुन्द-निसुन्दातङ्कसङ्कटान् ॥ १८ ॥ इत्याज्ञां शिरसि न्यस्य ययौ तत्र तिलोत्तमा । यत्र तावसुरौ सुन्द-निसुन्दौ परितिष्ठतः ॥ १८१ ।। हारार्द्धहारकेयूरनूपुरादिविभूषिता । सुरूपोच्चकुचा सज्जीकृतनेत्रोडुपानना ॥ १८२ ॥ सा ताभ्यां युगपद् दृष्टा दृष्टिपीयूषपारणम् । ततश्च सानुरागौ तौ तस्यामेव बभूवतुः॥ युग्मम् ॥ ॥ तदात्यै युध्यमानौ तौ शौरस्त्रैश्च दारुणैः। मृतौ बन्धू अपि हाहा ! स्त्रीभिः को न विम्बितः॥१८४ ॥
स्त्रीणां कृते भ्रातृयुगस्य भेदः संबन्धभेदे स्त्रिय एव मूलम् ।
अप्राप्तकामा बहवो नरेन्द्रा नारीभिरुच्छेदितराजवंशाः ॥ १८५ ॥ देवाजलवसंयोगात् संजाता च सिलोत्तमा । लूनलग्गैस्तदोपाङ्गैस्त्वदनं किं न जायताम् ॥ १८६ ।। श्रूयते शैशवे वायुसुतो मातरचनाम् । अप्राक्षीत् को ममाहारः क्षुधितस्य भविष्यति ॥ १८७ ॥ सोचे वत्सातिरक्तानि फलानि तव भोजनम् । तेनापि जगृहे सूर्योऽथोद्यन् पक्वफलभ्रमात् ॥१८८॥ तेनापि चूर्णितं तं च वीक्ष्य माता शुचातुरा । भर्तुनिवेदयामास करुणं रुदती सती ॥ १८९॥ क्रन्दन्तीं दयितां दृष्ट्वा मृतं च पवनः सुतम् । ततो रसातलं कोपात् प्रविश्य स्थितवानसौ ॥ १५०॥ पवनस्य निरोधेन सदेवमनुजासुरम् । जगज्जातमतीवानं मृत्युशेषमशेषतः ॥ १९१ ॥ ततो दीनानना देवास्तं प्रसादयितुं गताः । हनुमन्तं सजीवं च संयोज्यावयवान् व्यधुः ॥ १५२ ।। " हनुरेकास्य नो दृष्टा शोधयित्वा सुरैस्तदा । तद्वियुक्तोऽपि हनुमानिति तस्याभिधा कृता ।। १९३ ॥ पवनस्याङ्गजश्चूर्णीभूतश्चेन मिलितोऽभवत् । अपूर्वं तत्कथं भ्रातस्त्वद्वचो महे वयम् ॥ १९४ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org