________________
धूर्ताख्यानसंस्कृतभाषान्तरम् ।
[अथ खण्डपानाकृतं शशकथानकसमाधानम् । ]
शशं स्माह महादक्षा खण्डपानाऽथ धूर्तिका । भारते सुप्रसिद्धोऽर्थः श्रुतो रामायणेऽपि सः ।। २५४ ॥ शशः प्राक्ष(ख्य)त् कचिदृष्टः श्रुतो वेग तिलद्रुमः । खण्डपानाऽपि तं प्रोचे श्रुतं किं न त्वया जनात् ।। यत्पाटलीपुरे माषवृक्षादति गरीयसी । भेरी व्यधायि केनापि तत् तिलद्रुर्न किं महान् ॥ २५६ ॥ 5 व्यूढा तैलनदीत्यत्राप्युत्तरं भारतं शृणु । यद्दन्तिदानसंभूता सरित् प्लावयते स्म गाम् ॥ २५७ ।।
यत:
तेषां कटतटभ्रष्टैगजानां मदविन्दुभिः । प्रावर्त्तत नदी घोरा हस्त्यश्वरथवाहिनी ।। २५८ ।। यदि दन्तिमदाम्भोभिरभूत् कूलंकषा नदी । तथा तैलान्न जायेत वाहिनी किं वाहिनी ? ॥२५९ ।।
यञ्चोक्तं खलतैलादि भक्षितं तादृशं मया। तत्राप्याकर्ण योदन्तं भारतग्रन्थसंगतम् ।। २६० ।। 1" यद्राज्यान्निर्गतो भीम एकचक्रां पुरीं गतः । महाबलं बकं रक्षोराजं व्यापादयद् रुपा ।। २६१ ॥ सहस्रं मद्यकुम्भानां षोडशाशनखारिकाः । बकायोपस्थितान्येको भीमो भक्षितवांस्तदा ॥ २६२ ॥ एकाकिनाऽपि भीमेन पीतं भुक्तं च तद् यथा । तथैव संगतं तेऽथ भोजनं खल-तैलयोः ॥ २६३ ॥ पिबेद् घटसहस्राणि कुम्भकर्णः सदा यदि । दशतैलपटानां ते तदा पानं न चित्रकृत् ॥ २६४ ॥
अन्यञ्चैतत् पुराणेषु श्रूयते यदगस्तिना । दानवानां विनाशाय निपीतः क्षारवारिधिः ॥ २६५ ।। Is स्वोत्तीर्णा जटाजूटाच्छम्भोगङ्गा विनिर्गता । वहन्ती जहुसंज्ञस्य मुनेश्वाश्रममीयुषी ।। २६६ ।। तेन पीत्वा सहस्रं सा वर्षाणां भ्रामितोदरे । तन्मुक्ता पप्रथे लोके जाह्नवीत्यभिधानतः ॥ २६७ ॥ यदि ताभ्यामृषिभ्यां भोः ! पीते सिन्धुसुरापगे। दशतैलघटापानं तदा कस्ते न मन्यते ॥ २६८ ॥ गजचर्मदृतिस्तादृग् मयोडैकाकिना कथम् । ग्रामं नीता च तत्रेदं गरुडाख्यानकं शृणु ॥ २६९ ॥ काश्यपस्य ऋषेः पत्नयो द्वे कद्रू-विनताहये । ताभ्यां परस्परं चक्रे पणबन्धोऽन्यदेदृशः ॥ २७० ॥ " कार्य दास्यं तयाऽन्यस्या या पणेन विजीयते । अथवाऽत्र समानीय दातव्यममृतं द्रुतम् ॥ २७१ ॥ ततः कद्रा जिता दास्यं विनता तन्वती भृशम् । तया विमान्यते नित्यं सपत्नीति विरोधतः ॥२७२ ।। आजन्मदासभावेन विनता दुःखिताऽधिकम् । गर्भभारालसाङ्गी च सुषुवे साऽण्डकत्रिकम् ॥२७३ ।। औत्सुक्याद् दास्यमोक्षायैकस्मिन् भिन्ने तयाऽण्डके। वृश्चिकान्निर्गतान् वीक्ष्य विषादो विदधेऽधिकम् ॥ यस्या दैवहताया मे प्रसूतिरजनीदृशी । कथंकारमहं पारं तद् यास्ये दास्यवारिधेः ॥ २७५ ॥ 25 कालं कियन्तमप्येषा व्यतिक्राम्यातिदुःखिनी । आशानिबद्धवान्ताऽण्डं द्वितीयं विनताऽभिनत्॥२७६॥ तस्मादनूरुर्निर्गच्छन् सखेदं स्माह मातरम् । किमकाण्डे द्वितीयाण्डमौत्सुक्याद् घिमिदे त्वया॥२७७॥ अपूरयिष्यं तेऽवश्यमहं मातर्मनोरथान् । चेदजङ्गमकायो नाभविष्यं त्वदभाग्यतः ॥ २७८ ॥ तस्मात् तृतीयमण्डं त्वं चिरं रक्ष विचक्षणे! । अस्माद् यो भविता सूनुः स ते दुःख हरिष्यति॥७९॥ सोऽनूरुः सारथिश्चक्रे रथे किरणमालिना । विनताऽपि तृतीयाण्डं पूर्ण मत्वाऽभिदत् स्वयम् ॥२८॥ * तस्मादाविरभूद् भोगिकुलकालो महाबलः । गरुडो विनताखान्तमहोदधिसुधाकरः ॥ २८१ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org