________________
४. शशकथितं कथानकम् । शैशवेऽपि हि स क्रीडन् निजाहिसुतमृत्युकृत् । विलोक्य कद्रा विनता प्रत्यहं क्लिश्यतेऽधिकम् ।। २८२ ।। विनतामचनीरेण सिञ्चन्तीमवनीतलम् । विलोक्य गरुडः स्माह मातः ! किं रुद्यते त्वया ? ॥२८३ ॥ साऽप्यूचे जीवितस्यार्थे सपन्या दास्यमाश्रिता । तदादेशं भयभ्रान्ता करोमि प्रतिवासरम् ॥ २८४ ॥ तच्छ्रुत्वा गरुडोऽवादीद् दास्यात् त्वं मुच्यसे कथम् ? । साऽप्यूचे यदि वत्स ! त्वममृतं स्फुटमानय ॥ तत् क्वास्त्यम्बेति पृष्टा साऽऽचष्ट वेत्ति पिता तव । स चाश्रमे बदर्याख्ये तप्यते दुस्तपंतपः॥२८६॥ तत्क्षणाद् गरुडस्तत्र गत्वा पादोऽनमत् पितुः । ज्ञातोऽध्यक्षेण तेनापि करस्पन्मिमैष तुक ॥ २८७ ॥ ताताहं क्षुधयाक्रान्तस्तन्मे वितर भोजनम् । इत्युक्तो वैनतेयेन कश्यपस्तमभाषत ॥ २८८ ॥ इतः समीपगे पद्मसरस्यस्ति महागजः । योजनद्वादशायामस्तन्मानः कच्छपस्तथा ।। २८९ ।। कोपाटोपोत्कटावेतौ युध्यमानौ परस्परम् । कुर्वाते सरसः क्षोभं मन्थाद्री इव जङ्गमौ ॥ २९० ॥ तौ व्यापाद्य यथा स्वैरं भुङ्क्ष छिन्धि क्षुधाव्यथाम् । गत्वैकेन क्रमेणाथ तौ हत्वा तेन भक्षितौ ॥२९१॥" ततः प्रतिनिवृत्तोऽसावपश्यद् वटपादपम् । प्रलयाम्बुदसंवादिपक्षिकोलाहलाकुलम् ।। २९२ ॥ ब्रह्मबीजसमुत्पन्ना ऋषयोऽध्युष्ट कोटयः । वालिखिल्याभिधास्तस्याऽधस्ताद् विदधते तपः ॥ २९३ ॥ गरुडो यावदारूढो भग्नस्तावद् वद्रुमः । तेन चञ्चवा गृहीतश्च मुनीनां मृतिरस्तु मा । २९४ ॥ समुत्क्षिप्य ब्रजन् व्योमाच्छादयन् विस्मयाकुलान् । सुरासुरान् प्रकुर्वाणः सोऽमुचत् सिन्धुकानने ॥ तटालस्कृता भूमिर्जनैलङ्केति सोच्यते । या निशाचरराजस्य प्रसिद्धा ते महापुरी ॥ २९६ ॥ ॥ वतो हिमाचले गत्वा पितरं गरुडोऽवदत् । दन्तिकांदनेनापि बुभुक्षा मे न जग्मुषी ॥ २९७ ॥ निषादान् खाद तेनेति प्रोक्तो जग्ध्वा स तांस्ततः । एत्याख्यत् कश्यपं तातामृतं क्वास्ति समाविश ।। सोऽवादीद् वत्स पातालसप्तकाधास्थकुण्डके । धगधगिति जाज्वल्यमानानौ तद्धि वर्तते ॥ २९९ ॥ सावधानः स्वयं तच्च देवायैस्तत्र रक्ष्यते । अतोऽमृतं न केनापि गृहीतुं शक्यतेऽर्भक ! ॥ ३०॥ तत्प्राप्तौ कोऽप्युपायो मे तातास्तीति तदीरितः । स आख्यदाज्यसक्षौद्रध्यम्भोभिरनारतम् ॥ ३०१॥ " कृशानौ तर्पिते वत्स ! लभ्यते यदि वा न वा । प्राप्तेऽमृतेऽपि जायन्ते तत्रोप्रा विनराशयः॥ युग्मम् ॥ इति कश्यपवाक्येन वैनतेयेन सत्वरम् । गत्वा मध्वादिभिर्वह्निः संतl परितोषितः ॥ ३०३ ॥ अमिना प्रीणितेनास्यामृतकुण्डं प्रदर्शितम् । तेनाप्यादाय पीयूषं मंक्षु तस्माद् विनिर्गतम् ॥ ३०४ ॥ तद्रक्षकसुरैर्युष्टं यत् पक्षी कुण्डतोऽमृतम् । आदाय यातीति श्रुत्वा चुक्षुभुत्रिदशादयः ॥ ३०५ ॥ ततः सर्वाभिसारेण सुराः प्रहरणोद्धराः । कोलाहलरवैराशाः पूरयन्तः समन्ततः ॥ ३०६ ॥ 'भिन्त छिन्त हन्ताऽऽहन्तात्रापि माऽमुं च मुञ्चत । इति जल्पपराः क्रूराः संभ्रमात् ते तमन्वगुः ॥ त्रयस्त्रिंशत्कोटिदेवा वेष्टयित्वाऽथ तं जगुः । हतोऽसि रे सुधाचौर ! क यास्यस्यस्मदप्रतः ॥ ३०८॥ एकतः सकलं विश्वमन्यतस्त्वेक एव सः । समरं कर्तुमारेभे कातरद्रवणौषधम् ॥ ३०९ ॥ स पक्षी पक्षघातेन चतुर्दिक्षु दिवौकसाम् । लक्षं सहस्र कोटींश्चानयत् कीनाशपत्तनम् ॥ ३१०॥ गरुडस्य सुराणां च युद्धं पीयूषहेतवे । जज्ञे स्म विस्मयध्वंसि विश्वाश्चर्यकरं तथा ॥ ३११ ॥
1B भिन्नच्छिचहताहन्ता। 2B पलायनौषधम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org