________________
धूर्ताख्यानसंस्कृतभाषान्तरम् । ततः समूहो देवानामेकेन विनताभुवा । त्रस्तो रणाङ्गणाद् दिक्षु बलिवन्निर्ममेऽखिलः ॥ ३१२ ॥ अथेन्द्रस्त्रिदशान् भन्मान् दृष्ट्वा ज्वालाशताकुलम् । मुमोच कुलिशं घोरं विघाताय गरुत्मनः ॥ ३१३ ॥ तह त्रं वज्रसाराभ्यां पक्षिभ्यां पक्षिणः पतत्। भाग्यादेव दिवो भर्तुर्नागात् खण्डसहस्रताम् ॥ ३१४ ॥ किमप्यशनिना तेन चिच्छेदे भोः सुरा इति । तत्प्रत्ययाय पक्षं स चश्चवोत्पाट्य ह्यदर्शयत् ॥ ३१५ ॥ ॐ ततो दन्दह्यमानोऽसौ केशवः कोपवह्निना । द्वादशार्कप्रभं चक्रं लात्वा तद्धतयेऽचलत् ॥ ३१६ ॥ भीतभीताः ससंभ्रान्ता हा हा किमिति' लापिनः । महर्षयस्ततो गत्वा विष्णुमेवं व्यजिज्ञपन् ॥ ३१७ ॥ ससुरासुरलोकस्य स्वामी सर्वगतो भवान् । नीचवन्निरपेक्षः किं गरुडं प्रतिधावसि ? ॥ ३१८ ।। तवैष गरुडो बन्धुस्त्यज कोपमतः प्रभो ! । व्यामूढम्लेच्छवद् गोत्रं मा नय क्षयमात्मनः ॥ ३१९॥ ऋषीणां तद्वचः श्रुत्वेत्यच्युतोऽचिन्तयद् हृदि । कथं क्रोधान्मया बन्धुर्हा हा ! व्यापादितो भवेत् ॥३२०॥ 10 क्रोधाग्निविह्वलीभूतः पुरुषो ज्ञानवानपि । कृत्याकृत्यं न जानाति तदेतैः साधु बोधितः ।। ३२१ ॥ जाते ततस्तयोः सन्धौ रथीचक्रे स चक्रिणा । दत्त्वाऽमृतं च माताऽपि पक्षिणाऽमोचि दास्यतः॥३२२।। कुम्भिकर्कवटास्तेनोत्पाटिता यदि पक्षिणा । दृतेरुत्पाटनं तत् कः शृण्वंस्तव न मन्यते ॥ ३२३ ॥ सप्ताहं दुर्दिने विष्णुरधाद् गोवर्द्धनाचलम् । तत् त्वं तैलभृतां बन्धो ! दृति धरसि नो कथम् ।। ३२४॥ कपिभिर्बन्धने सेतोरुक्षिप्योक्षिप्य पर्वताः । बहुभ्यो योजनेभ्योऽथानीय क्षिप्ताः पयोनिधौ ॥३२५॥ 15 अशोकवनिकाभङ्गे हनुमानुशाखिनः । हेलयैवाभिनत् कोपादित्युदन्तं विभाषयन् ॥ ३२६ ।। पादपोन्मूलनानीततमायास्त्वत्तनूभुवा । दृतेः को विस्मयं धत्ते वद धूर्तशिरोमणे ! ॥३२७॥ युग्मम् ।।
॥ इति धूर्ताख्याने चतुर्थ शशोक्तं कथानकम् ॥
[५. खण्डपानाकथितं कथानकम् । ]
एवं निरुत्तरीभूतः शशः खण्डामभाषत । स्वानुभूतं त्वमप्यर्थ धूर्त्तिके ! ब्रूहि किश्चन ॥ ३२८॥ " साऽप्यवादीद् वदाम्येव भवतां पुरतः परम् । नमतैतर्हि मत्पादौ यदि तद् भोजयामि वः ॥३२९॥ धूर्तास्तां स्माहुरण्याः स्मः पुरुषेषु कथं नु ते । महिलायाः पुरो दीनं घूमो भोजनहेतवे ॥ ३३० ॥ ईषद् हसित्वा सा स्माहाकर्णयध्वं सकर्णकाः । आख्यानकं मयाऽऽवीर्ण वर्ण्यमानं च सूनृतम् ॥३३१॥ यौवनोदयसञ्जातलावण्योत्सेकशालिनी । रतिरूपा स्मरोन्मादशुण्डा रण्डाऽभवं पुरा ॥ ३३२ ॥
रस्यदाऽहमृतुनाता प्रसुप्ता मण्डपे शुचौ । पवनेन यथा खैरमुपभुक्ता विलासिवत् ॥ ३३३ ।। 35 रुपात सुतो मयाऽसावि तत्कालं सोऽपि मां बलात् । मुत्कलाप्य क्षणात् क्वापि जगाम स्वप्नदृष्टवत् ।। मद यूयं ब्रूत किं सत्यं यद्येवं स्थुस्त नुद्भवाः । तदा काऽपि न जायेत रण्डा पण्डितमानिनः ॥३३५।।
A किमपि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org