________________
५. खण्डपानाकथितं कथानकम् । [अथ मूलदेवादिधूर्तकृतं खण्डपानाकथनसमाधानम् ।]
मूलदेवोऽथ तां स्माह - श्रुतिषु श्रूयते यतः । जातः कुन्या भीमसेनोऽञ्जनया हनुमानपि ॥ ३३६ ॥ कैवर्तीकुक्षिजो व्यासः पराशरमुनेरभूत् । कार्येषु मां स्मरेर्मातरित्युक्त्वा स वने ययौ ॥ ३३७ ॥ जाता योजनगन्धाऽप्यक्षतयोनिर्मुनेर्गिरा । विचित्रवीर्य साऽसूत भूत्वा सान्तनुवल्लभा ॥ ३३८॥ विचित्रवीर्ये व्यापन्ने कृष्णद्वीपायनो मुनिः । तत्राजगाम मात्राऽसौ स्मृतो योजनगन्धया ॥ ३३९ ॥ । ठयासोऽभाणि तया वंशः पुत्राभावाद् विनश्यति । तथा यतख वत्स !त्वं कुलं संवर्द्धते यथा॥३४०॥ उद्दधे तेन वंशोऽयं पाण्डं जनयता नृपम् । धृतराष्ट्रं च राष्ट्रेशं विदुरं विदुरोत्तमम् ॥ ३४१ ॥ रन्त्या प्रजावतीस्तिस्रो व्यासः संजातजातकः। शशाप हा तपोभ्रष्टः कृताधाभिः कृतोऽस्म्यहम्॥३४२॥
उक्तश्चआहारे चैव योनौ च बीजे कर्मणि या शुचिः।
तस्य कृत्स्नगतस्यापि न पापे रमते मतिः॥ ३४३ ॥ भीमाञ्जनेयव्यासानामुत्पत्तिर्यदि सुनृता । तदा वायोः सुतावाप्तिः प्रसवस्ते न किं मतः ॥ ३४४ ॥ पुनः खण्डाऽवद् गौरी देवी मे समभूत् सखी । तया मरो ददे मह्यं देवाद्याकृष्टिकारकः॥ ३४५॥ तेन सौभाग्यमत्रेणाकृष्टस्तीप्रकरो रविः । मां रत्वा सबलं पुत्रं जनयां चकृवान् जवात् ॥ ३४६ ॥ षडशीतिसहस्राणि योजनानां महीं रविः । दहत्यहं कथं तेन न प्लुष्टाऽनेन सङ्गता ॥ ३४७॥ ॥ कण्डरीको जगादाथ कुन्ती चेदर्कसङ्गता । न प्लुष्टा तत् कथं रण्डे खण्डे त्वं वासेऽमुना ॥ ३४८॥ पुनः साऽभाषताकृष्टो ज्वलनः प्रज्वलन् मया । मामालिङ्गय महावीर्य सोऽप्युत्पादितवान् सुतम् ॥३४९॥ रविर्दहति दूरस्थोऽङ्गलग्नस्तु हुताशनः । तत् तेनाहं कथं नैव दग्धा संभोगसङ्गता ॥ ३५० ॥ एलाषाढो बभाणैतां धूमोर्णा यमगेहिनी । होतुं हुताशनावासं गता रेमेऽग्निना तु सा ॥ ३५१ ॥ यमं स्वपृष्ठमायान्तं वीक्ष्यापूर्णे रतेऽपि सा । अपसर्तुमनीशाऽग्निं पपौ! नीरमिवातुरा ॥ ३५२ ॥ ॥ असमाप्तरतां तां तु शिथिलीकृतमेखलाम् । गिलित्वा प्रेतराजोऽपि ययौ त्रिदशसंसदि ।। ३५३ ॥ स्वागतं स्वतृतीयस्य तवेति व्याकृतः सुरैः । यमो ववाम धूमोर्णा तन्मुखं चाशुशुक्षणिम् ॥ ३५४ ।। यमेनानुगतो धावञ्चमिर्नष्टो वनान्तरे । गजैस्तदने न प्रोक्तः स तद्वाचमतोऽच्छिदत् ॥ ३५५ ॥ यदि प्रेतपतेर्जाया न दग्धा वह्निसेविनी । हे खण्डे ! त्वं हुताशेन भोगिनी दलसे कथम् १ ॥३५६ ॥ पुनर्बभाषे खण्डा तन्मयैरावणवाहनः । आकृष्टः सोऽपि संगत्य मयाऽजीजनदङ्गजम् ॥ ३५७ ॥ । देवीरिन्द्रः कथं त्यक्त्वाऽविश्रा मामुपभुक्तवान् । शशोऽथोचेन किं रेमे सोऽहल्यां गौतमप्रियाम्॥३५८॥ गौतमोऽथ रुषाऽङ्गेऽस्य कृत्वा भगसहस्रकम् । समादिदेश दुष्टात्मा बटुंस्तदुपभुक्तये ॥ ३५९ ॥ कन्दर्पानिप्रतप्तानां बदनामविवेकिनाम् । सकाशात् त्रिदशाधीशस्तामवाप विडम्बनाम् ।। ३६०॥ प्रसादिवात् तथा देवैर्गौतमादतिभक्तिना' । अक्ष्णां सहस्रं तत्स्थाने कार्यते स्म कथञ्चन ॥ ३६१ ॥ 1A प्रसादितादयो। 2 B भक्तितः।
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International