________________
धूर्ताख्यानसंस्कृतभाषान्तरम् । कुन्त्याऽपीन्द्रस्य संभोगादर्जुनः सुषुवेऽङ्गभूः । तद्भोगात् ते सुतोत्पत्ति को न मन्येत शास्त्रवित् ॥३६२॥
पितरं मातरं वंशं नाम वित्तं च वित्थ मे ? । इति ते खण्डया पृष्टा मूलदेवस्ततो जगौ ॥ ३६३ ॥ अभूस्त्वं पाडलिपुरे नागशर्मद्विजात्मजा । सोमश्रीकुक्षिभूः खण्डाभिधा गौतमगोत्रजा ॥ ३६४ ॥ सोचे नाहं भवन्तस्तु भ्रान्ताः सदृशरूपतः । किन्त्वस्मि राजरजकपुत्रिका दग्धिकाभिधा ॥ ३६५ ॥ बहुधान्यसमाकीर्ण नानावाहनभासुरम् । धनैरमानैः संपूर्ण मद्वेश्म नृपवेश्मवत् ॥ ३६६ ॥ भूपते राजलोकस्य शुद्धान्तस्य च शिल्पिनाम् । सहस्रेण युताऽजस्रं वासांसि क्षालयाम्यहम् ॥ ३६७ ॥ अंशुकैः शकटीभृत्वा शिल्पिसाहस्रिका युता । तरङ्गिणी तरङ्गालिमालितामन्यदाऽगमम् ।। ३६८ ॥ छटच्छटिति हुँ छं च शेण्टिकाशब्दपूर्वकम् । शिल्पिनः क्षालयामासुर्वासांसि मम सेवकाः॥३६९॥ विस्तारितानि वस्राण्यातपे शोषयितुं भुवि । रौद्रेण वायुना तानि हृत्वा नीतानि च क्वचित् ॥३७०॥ ॥ ततो भृत्या मया प्रोक्ता नंष्ट्वा गच्छत रे ! रयात् । वनापहारदोषोऽस्तु ममैवातो गता हि ते॥३७१॥ गोधारूपमहं कृत्वा नराधिपतिमीतितः । सच्छायं नगरोद्यानं रजन्यां समुपेयुषी ॥ ३७२ ॥ क्रीडन्तं तत्र च स्वैरं पश्चिमप्रहरे निशः । अचिन्तयं जनो मांसचर्मार्थी मां हनिष्यति ॥ ३७३ ॥ तन्निर्भया क तिष्ठामीत्येवं चिन्ताञ्चिता सती । अभ्राम्यं रम्यमारामं को हि मृत्योर्बिभेति न ॥३७४॥ गोधास्पं ततस्त्यक्त्वा रक्ताशोकमहीरहः । पार्श्वे चूतलतारूपं विधाय स्थितवत्यहम् ॥ ३७५ ।। ॥ तमःपटावृता रात्रिरसतीव विलासिनी । व्यतीता यत् ततो भानुरुवगात् पनवोधकृत् ॥ ३७६ ॥ वनापहारवृत्तान्तं श्रुत्वा राजा जनादथ । पटहोद्घोषणापूर्व रजकानां वदेऽभयम् ॥ ३७७ ॥ ततोऽहं पटहारावं श्रुत्वा श्रुतिपटामृतम् । हित्वा चामुं लताभावं पुनः स्वं रूपमाश्रिता ॥ ३७८ ॥ शकटीनां वरनाथं तासां चर्ममयं निशि । शृगालमण्डलनातैः सकलं परिभक्षितम् ॥ ३७९ ॥ तदन्विष्टिकृता पित्रा मम तत्रैकमौन्दुरम् । पुच्छं लब्धं ततः सर्व वरत्राद्यं विनिर्मितम् ॥ ३८० ॥ " तद्भोः ! सत्यं किमतन्न तयेत्युक्तः शशोऽवदत् । यन्न लिङ्गान्तगौ ब्रह्म-विष्णू तत्कोऽत्र विस्मयः॥३८१॥ रामायणेऽपि हि हनुमल्लाजूलं श्रूयते महत् । येन लकापुरी दग्धा वेष्टयित्वाऽग्निनाऽखिला ॥ ३८२ ॥ इयत्प्रमाणं लालं यद्यासीद् वायुजन्मनः । तदा मूषकपुच्छात् किं संभवेयुर्न रजवः ॥ ३८३ ॥ श्रूयते हि श्रुतौ राजाऽरण्ये गन्धारिकावरः । यन्मानववपुस्त्यागादभूत् कुरुबकठ्ठमः ॥ ३८४ ॥ नहुषो नाम राजाऽभूद् विक्रमाक्रान्तशत्रवः । शक्रोऽपि वनभिद् येन जिग्ये कातरवद् रणे ॥३८५॥ 21 अधिक्षिपन् पुनः शत्रु रोषतः सुरसूरिणा । शप्तः सोऽभूदजगरोऽरण्यदेशे महावपुः ॥ ३८६ ॥
अन्येयुः पाण्डवा राज्यभ्रष्टास्तत्र वने ययुः । ततो भीमो भ्रमंस्तेनाजगरेणाशु जनसे ॥ ३८७ ॥ युधिष्ठिरोऽथ विज्ञातोदन्तस्तत्सविधं मतः । तत्पृष्टः सप्तपृच्छानां प्रत्युत्तरमदाश्च सः ॥ ३८८ ॥ उदगीर्णभीमः शापान्ताद् विमुच्याजगरी तनुम् । पुनर्नहुषराजा स बभूव भुवनाद्भुतः ॥ ३८९ ॥ यद्येतत् सकलं सत्यं तदा खण्डे भवत्यपि । गोधाचूतलताभावानारीभूता किमद्भुतम् ॥ ३९० ॥
1B अभ्राम्यहमारामं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |