Book Title: Dhurtakhyan
Author(s): Haribhadrasuri, Jinvijay
Publisher: Saraswati Pustak Bhandar Ahmedabad

View full book text
Previous | Next

Page 127
________________ धृतोप्यानसंस्कतभाषान्तरम् । कथायां रामभद्रस्य सीतापहरणे क्षणे । सेतुबन्धे कृते लकापुरी दाशरथौ गते ॥ १९५ ।। राम-रावणयोरिपोरे समरवितरे। दरब्धे क्षुब्धपाथोधौ सिंहनादस्फुटनगे ॥ १५६ ॥ लकेशभटनिर्मुक्तशेल्लवावल्लभल्लकः । शक्तिभिश्चासिभिश्छिन्नाङ्गोपाङ्गकपिसैनिके ।। ५९७ ॥ शक्तिप्रहारनिर्बद्धभूमिपतितलक्ष्मणे । रामप्रलापनिर्धापप्रतिशब्दितभूधरे ॥ १९८ ।। 5 द्रोणाद्रर्वायुपुत्रेण समानीतविशल्यया । सौमित्रेर्वक्षसः शक्तिर्निरगात् पापधीरिव ।। १९९ ॥ -चतुर्भिः कलापकम् । तया विशल्यया सिक्ताश्छिन्नाङ्गा अपि वानराः । सजीवाः सहसोत्तस्थुर्मिलितावयवव्रजाः ॥२०॥ छिन्नाङ्गा अपि चेजाताः सजीवाः प्रवगास्ततः । भवान् ग्वण्डीकृतः किं न भ्रातः ! प्राणिति संप्रति॥२०१॥ जगत्प्रसिद्धमन्यच्च कार्तिकेयम्य संभवम् । किं नाऔपीद् भवान् भूयो ग्रन्थेषु ग्रथितं बुधैः ।। २०२ ।। "हिमाचलगुहामध्ये मैथुनासन्कयोस्तयोः । गौरी-शङ्करयोजज्ञे दिव्यं वर्षसहस्रकम् ।। २०३ ॥ तस्मिन्नवसरे देवास्तारकासुरपीडिताः । अशक्तास्तद्वधेऽन्योन्यं पर्यालोचं वितेनिरे ।। २०४॥ शंभोर्वीय विना नान्यस्तारकं हन्तुमीश्वरः । स तु शंभुः संलीनोऽस्ति दर्या हिमभूभृतः ॥ २०५ ।। मिया कोऽपि न तत्पावं शायन्यो ह्यनलं विना । अतः प्रार्थ्यते गन्तुमिति ते तं बभाषिरे॥ २०६॥ परोपकारिणः कार्यमेकस्या" प्रकुर्वते । विशिष्य सर्वदेवानां कृत्ये कः स्यात् पराङ्मुखः ॥ २०७ ।। । यदर्थमखिला देवा ममाश्चिन्तामहार्णवे। तत्रानल ! भवानेव गन्तुमीशो न चापरः ॥ २०८॥ तद् गत्वा दर्शयात्मानं हिमाद्रिस्थस्य शूलिनः । कदाचित् त्वां विलोक्येशः स्मरक्रीडां विमुञ्चति ॥२०९॥ हव्यवाहोऽथ तानूचे कः शंभोः संमुखं व्रजेत् । विशिष्येहगवस्थस्य तस्य श्रेयोऽभिलाषुकः ।। २१०॥ खट्वाङ्गधारिणं शूलपाणिं नरकपालिनम् । श्मशानवासिनं कस्तमभिगच्छेजिजीविषुः ॥ २११ ॥ ऊर्द्धमुल्लास्य यो लिङ्गं ताण्डवेन प्रनृत्यति । बलारिरपि तत्पावं गन्तुमीशो भवेन्न हि ॥ २१२ ॥ ० कदाचित् कन्दरान्तस्थं शूलपाणिनिहन्ति माम् । तदा मे का गतिः स्यात् तन्न मां प्रेषयतामराः!॥२१३॥ तेऽप्यूचुर्मा स्म भैषीस्त्वं यतोऽयं पार्वतीवशः । नूनं जगदिदं सम्यग् दम्यते प्रमदाजनैः ॥ २१४ ।। __उक्तं चमासेन दम्यते वाजी वर्षेणोन्मत्तकुञ्जरः । निमेषोन्मेषमात्रेण पुमांस्तु प्रमदाजनैः ॥ २१५॥ यदेव रोचते गौर्यास्तदेव कुरुते हरः। किं नानल ! त्वया दृष्टोऽङ्गेि तामुद्वहन्नयम् ॥ २१६ ॥ 11 अतस्त्यज त्वमाशङ्कामेतां यत् कुपितो हरः । न कर्ता भवतः पीडां गौरीस्वान्तानुवृत्तये ॥ २१७ ॥ एवमस्त्विति गत्वाऽमिहिमवत्कन्दरान्तरे । प्रेक्षत त्रिपुरारातिं रतिलीलाविसंस्थुलम् ॥ २१८ ॥ तमुपान्तगतं दृष्ट्वा रुषोत्तिष्ठन् हरस्ततः । हुं हुं गौर्या निषिद्धः स ऊर्द्धलिङ्गोऽनलं जगौ ॥ २१९ ॥ मुखं व्यादेहि रे ! रेतः पिबेत्यथ वदन् हरः। तत् तस्मै पाययामास भानुतेज इवोल्वणम् ।। २२० । रेतसादामानोऽग्निः कथञ्चित् प्राप्य वारिधिम् । तद् ववाम ततःसोऽपि बभूव सुखितो मनाक्॥२२१॥ ॥ ततः प्रभृति लोकेषु श्रूयते रत्नसन्ततिः । समुद्रे रेतसो जाता प्रस्फुरत्तेजसाञ्चिता ॥ २२२ ॥ अथ- प्रभाकरे पद्मभासुरे शिशिराम्भसि । अग्निस्तद्रेतसः शेषं वान्त्वा शीतोऽभवत्तराम् ॥ २२३ ॥ तत्र षण्णां कृत्तिकानां स्नान्तीनां स्मरमन्दिरे । तस्मिन् शुक्रे प्रविष्टेऽभूत् समकं गर्भसंभवः ॥२२४ ॥ कालान्तरे सुषुविरे युगपत् कृत्तिकास्ततः । शीर्ष बाहू उरो रुण्डं शरीरं च क्रमादिमाः ॥ २२५ ॥ ततस्ता विस्मितस्वान्ता दर्शयाश्चक्रिरे मिथः । यावत्तावत् किलाङ्गानि मिमिलुस्तानि सूतवत् ॥ २२६ ॥ - स्वस्वस्थानासंयोगात् कार्तिकेयः षडाननः । आसीदाशैशवादेषोऽजिमब्रह्मतोल्वणः ॥ २२७ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160