Book Title: Dhurtakhyan
Author(s): Haribhadrasuri, Jinvijay
Publisher: Saraswati Pustak Bhandar Ahmedabad
View full book text
________________
धूर्ताख्यानसंस्कृतभाषान्तरम् ।
अधीत्य शास्त्राणि विमृश्य चार्थान् न तानि वक्तुं पुरुषाः समर्थाः। यानि स्त्रियः प्रत्यभिधानकाले वदन्ति लीलारचिताक्षराणि ॥ ४२० ॥
॥ इति धूर्ताख्याने खण्डपानोक्तं पश्चमं कथानकम् ॥
। चन्द्रेन्द्रवायुभावन्तो धर्माग्निमुनयोऽपि च । दुःखिता' निखिला लोके म्मरापस्माररोगिणः ॥ ४२१ ॥ जीवांस्तस्थाव भिव्याप्य सूक्ष्मस्थूलविभेदतः । भगवान् सर्वगो विष्णुरिति श्रुतिषु गीयते ।। ४२२॥ यदि सर्वगतो विष्णुरिति सत्यं वचो भवेत् । तदा स्मरातुरो गोपीः किं चिन्तयति कामिवत् ॥४२३॥ असंभाव्यमिदं लोके श्रूयते यदुमामलात् । मृतोऽपि प्राप्तचैतन्यः पप्रथे स गणाधिपः ॥ ४२ ॥ इत्येते लौकिकालापाः पुराणादिसमुद्भवाः । विशीर्यन्ते प्रतिपदं विचक्षणविचारिताः ॥ ४२५ ।। "अतोऽदो लौकिकं वाक्यं रासभोचारवद् बहिः । रम्यमन्तश्चिन्यमानं पुनस्तुषवसाकुलम् ॥ ४२६ ॥
॥ इति धूर्ताख्यानसंस्कृतभाषान्तरं समाप्तम् ॥
1B वृषिता।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160