Book Title: Dhurtakhyan
Author(s): Haribhadrasuri, Jinvijay
Publisher: Saraswati Pustak Bhandar Ahmedabad

View full book text
Previous | Next

Page 134
________________ ५. खण्डपानाकथितं कथानकम् । पुनः साऽऽख्यद् धूर्तराजा! मन्यध्वं चेद् वचो मम। सत्करोमि तदा सर्वान् प्रचुरैर्भोज्यपानकैः ॥३९१॥ जयामि चेत् कदाचिद् वः कयाचिन्मेधया तदा । स्फुटं कपर्दिकामात्रं मूल्यं न प्राप्स्यथ क्वचित् ।। तेप्यूचुरेनां सोत्कर्षाः कोऽस्मान् धूर्त्तशिरोमणीन् । जेतुमीष्टे परमेष्ठि-शंभु-विष्णुसमोऽपि सन् ॥३९३।। ततस्तान्' स्माह सा खण्डा मुत्कलाप्य महीपतिम् । पुरागतांशुकार्थेऽहं पर्यभ्राम्यं दिशो दश ॥ ३९४॥ अन्यच्च दासाश्चत्वारो नंष्ट्वा क्वापि गता मम । गवेषयन्ती तांश्चात्र सांप्रतं समुपेयुषी ॥ ३९५ ॥ । भवन्तस्ते च मे दासाः सिचयाश्चौरिता न हि । यद्येतन्नैव मन्यध्वं तद्दत्तभ्योऽद्य भोजनम् ॥३९६॥ हीणहीणास्ततस्तेऽपि खण्डा स्माहुरखण्डिताः । त्वयैव खण्डिता विश्वजनतावश्चका वयम् ॥ ३९७ ॥ भारस्यैतस्य योग्याऽसि त्वमेव वरवर्णिनि ! । यया प्रज्ञामदोन्मत्ता विजिताः पुरुषा अपि ॥ ३९८ ॥ औत्पत्तिक्या महाबुद्ध्या विजिता यत् त्वया वयम् । अतस्त्वं प्रार्थ्यसे देहि धूर्तानां पानभोजने ॥३९९।। ओमित्युदीर्य सा भूतपिशाचप्रेतसङ्कुलम् । घुघूत्कारदुर्वारं फेरफेत्कारदारुणम् ॥ ४०॥ कलेवरविनिर्गच्छद्वशारुधिरपिच्छिलम् । ज्वलञ्चितानलज्वालं गृध्रपक्षिरणोत्करम् ॥ ४०१ ॥ शूलाप्रोताङ्गिनामवित्रासितजनवजम् । दुर्गन्धगन्धवाहोपं खण्डा पितृवनं ययौ ।। ४०२॥ -त्रिभिर्विशेषकम् ॥ तत्राखण्डितसर्वाङ्ग बालमेकं गतासुकम् । तत्कालमुक्तमादाय खण्डाऽसिनपदम्भसा ॥ ४०३ ॥ सा वाससा तमाच्छाद्य विधाय च सुसङ्गतम् । उन्नयिन्यां धनाढ्यस्य श्रेष्ठिनः सदनं ययौ ॥४०४॥ तत्रेन्द्रसदृशः श्रेष्ठी दृष्ट्वा श्रेष्ठजनैर्वृतः । तयोचे दुर्गतस्याहं दुहिताऽस्मि द्विजन्मनः॥४०५॥ अबन्धुरशरण्याऽधसूता वैदेशिकी द्विजी । अतस्त्वां प्रार्थये देहि धनं बालकवृद्धये ॥ ४०६॥ स श्रेष्ठी व्याकुलः कार्ये भूयो भूयोऽर्थितस्तया । क्रुधा भृत्यानुवाचैनां निष्काशयत दुर्गताम् ।।४०७॥ अतिदीनं झुवाणाऽपि धृत्वा तैः प्रेरिताऽथ सा। भूमौ निपत्य चाक्रन्दन् मारितो हा ! मदङ्गभूः ॥४०८।। अनाथाया ममाधारो भावीयेष मनोरथः । ह हा दुरात्मनानेन भनो छरिव दन्तिना ॥ ४०९॥ ॥ पश्यवागत्य भो लोकाः! वणिजा धनगर्विणा । मारितस्तनयः शुद्धब्राह्मण्या मम पाप्मना ॥ ४१०।। ताडयन्ती शिरो वक्ष उदरं च पुनः पुनः । भग्नं भिक्षाकपालं मेऽनेनेति विललाप सा ॥ ४११ ॥ विहस्तोऽथ समुत्थाय श्रेष्ठी परिकरान्वितः । विलपन्तीं बभाणैतां मा त्वं कोलाहलं कुरु ॥ ११२ ॥ मुद्रिकां मे गृहाणैनामात्तबाला व्रज द्रुतम् । मुश्च शोकं च दत्ता ते गुर्येषा जीविका मया ॥४१३ ।। कर्णिकां साऽप्युपादाय शिशुं च निरगाद् गृहात् । श्रेष्ठ्यपि प्रगतापायो दानमाहात्म्यतोऽजनि ॥४१४॥३॥ खण्डाऽपि मुदिता स्वान्ते तं त्यक्त्वा मृतमर्भकम् । प्रोल्लसन्मणिमाणिक्यरत्नहट्टमगात् ततः ॥ ४१५ ॥ विक्रीय तामथादाय वस्तूनि विविधानि सा । यथेच्छं भोजयामास धूर्तान् श्राद्धे द्विजानिय ॥४१३।। तैः सर्वैस्तोषसंपूर्णमनस्कैः सेत्यवर्ण्यत । खण्डे ! तवैव जानीमो जीवितं सुष्टु निश्चितम् ॥ ४१७ ।। यत् त्वया धूर्त्तवर्गोऽयं विजित्य प्रतिभोदयात् । क्षुधातः प्रीणितो बाढं विपुलैः पानभोजनैः॥४१८॥ सुशिक्षिता अपि बुधास्तन्न जानन्ति जल्पितुम् । अशिक्षिता अपि वचः प्रवदन्ति यदनाः ॥४१९३॥ 35 1A ततोऽस्मान् । 2 B सन्ति यैश्चोरितानि हि। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160