________________
धूर्ताख्यानसंस्कृतभाषान्तरम् । कुम्भी' स कुम्भीनसवत् फुत्कारान् रोषतः सृजन् । मत्पृष्ठलमो भ्राम्यंश्च षण्मासीं तत्र वश्चितः ॥२२॥ ममैषोऽद्यापि नो पृष्ठं मुश्चतीति विचारवान् । ततोऽहं कुण्डिकाद्वारान्निरगां नरकादिव ।। २३ ॥ मत्पृष्ठे निःसरनेष सिन्धुरोऽपि मदोद्धरः । कुण्डिकारन्ध्रसंलमपुच्छकेशोऽस्खलत् क्षणम् ॥ २४ ॥ ततः स्वर्गनदी नारीमिब पीनपयोधराम् । दृष्ट्वा गोष्पदवत् तीवोऽध्यगां स्कन्दस्य मन्दिरम् ॥ २५ ॥ । अवधूय क्षुधोदन्ये षण्मासीं तत्र तिष्ठता। पतन्ती व्योमतो मूर्धा गङ्गाधारा मया धृता ।। २६ ॥ ततः षण्मुखमानत्याऽऽगत्य चोजयिनी पुरीम् । भवद्भ्यो धूर्तराजेभ्यः क्षेमेण मिलितोऽधुना ।। २७॥ इदं चेद् वित्थ सत्यं तन्मां मानयत हेतुभिः । अथालीकं सदाऽमीभ्यः सर्वेभ्यो दत्तभोजनम् ॥२८॥
[अथ कण्डरीकप्रदत्तमूलदेवकथानकोत्तरम् ।]
कण्डरीकस्ततोऽवादीत् त्वामसत्यीकरोति कः । जानानो हि पुराणं च श्रीरामायण-भारते ॥ २९॥ ।" यत्त्वयाऽवाद्यऽहं सेभः कथं कुण्ड्याममान्तमाम् । तत्प्रत्ययाय विप्राणामत्रार्थे शृणु जल्पितम् ॥ ३० ॥ विधातुर्वदनाद् विप्राः क्षत्रिया बाहुयुग्मतः । ऊरूयुगलतो वैश्याः पद्भ्यां शूद्राश्च निर्ययुः ॥ ३१॥ यद्येतावन्ममौ लोको ब्रह्मणो जठरान्तरे । कमण्डलौ भवांस्तत् किं न मातीभसमन्वितः ।। ३२ ॥ अन्यच्च यस्य धावन्तौ ब्रह्म-विष्णू उपर्यधः । दिव्यवर्षसहस्रेणाप्याप्तो पारं न हि कचित् ॥ ३३ ॥ महत्प्रमाणं तल्लिङ्गमुमायोनौ यथा ममौ । तथा त्वां सगजं कुण्डयां प्रविष्टं कोऽत्र दूषयेत् ॥ युग्मम् ।। 15 अन्यञ्च कीचकशतोत्पत्तिर्या व्यासभाषिता । प्रसिद्धा भारते शास्त्रे तामप्येतर्हि संशृणु ॥ ३५ ॥ विराटभूपतेरप्रमहिषी पुत्रकाम्यया । ऋषि 'गागलिनामानमारराधान्यदाऽऽश्रमे ॥ ३६ ॥ साधयित्वा चरुं सोऽपि दत्त्वा तामिदमूचिवान् । अन्तः कुडपं भुक्तेऽस्मिन् सुतानां मावि ते शतम् ॥३७॥ ततो गत्वा कुडनान्तर्बुभुजे तमसौ चरुम् । तत्रस्थो गागलिरपि तप्यते स्म तपोऽधिकम् ॥ ३८ ॥ सरस्यप्सरसस्तत्र सान्तीर्वासोविवर्जिताः । निरीक्ष्य स ऋषिः स्मेरस्मरबाणैरवधृतः ॥ ३९ ॥ " कामक्षोभादस्य शुक्रविन्दुर्यः कीचकेऽपतत् । तस्मादायः कीचकोऽभून्महावीर्यवपूत्तमः ॥४॥ पश्यतोऽप्सरसस्तस्य गलिताः शुक्रबिन्दनः । नाल्यां ये पतितास्तेभ्यः कीचकामामभूछतम् ॥११॥ तां नाली स ऋषिस्तत्र निधाय स्वाश्रयं ययौ । राजाऽपि रक्षयामास ततो वंशकुडङ्गकम् ॥ ४२ ॥ नाल्याः संपूर्णसर्वाङ्गान् यद्राझी याददेऽर्भकान् । तेन ते तत्सुतत्वेन प्रोच्यन्ते कीचका जनैः ॥४३॥ कीचकानां शतं प्रौढं तादृग् नाल्यां ममौ यदि । ततस्त्वं सगजो मासि कथं नैव कमण्डलौ ? ॥४४॥ 18 गङ्गा वर्षसहस्रं चेजटास्वीशेन मोहिता । षण्मासांस्तु त्वयाऽमोहि हस्ती कुण्ड्यामिदं घृतम् ॥ ४५॥ कुण्ड्या नालादहं दन्ती लग्नकेशव निःसृतौ । कथमत्रापि हे भ्रातः ! शृणु पौराणिकं वचः॥४६॥ प्रलये सर्वभूतानां जलैकार्णवतां गते । जगत्रये जलेशायी तस्थावेको जलेशयः ॥ ४७ ॥ जगत्सृष्टिकृतस्तस्य नाभिपद्माद् विनिर्ययौ । दण्डकुण्डीधरो" ब्रह्माऽब्जनालं तत्र चालगत् ॥४८॥ इत्थं कुण्डीमुखाचेत् त्वं सेभो भ्रातर्विनिर्गतः । तत्केशस्तत्र लमश्च किमयुक्तं भवेत् ततः ॥४९॥ " कमण्डलुमुखाद् भ्रातः ! कथं हि निरगामिति । यद् षे तस्य संवादं शृणु भारतभाषितम् ॥ ५० ॥
1B कुम्मीश। 2 B हुंकारान् । 3 B मत्पृष्टि। 4 A °णाध्याप्ती। 5A गङ्गलि। 6 B रविध्यत । 7 A °वदुत्तमः। 8 B स्मृतम्। 9A जलाशयः। 10 A कुण्डीकरो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org