________________
१. मूलदेवकथितं कथानकम् । दिव्यं सहस्रं वर्षाणां तपः कुर्वति धातरि । क्षुब्धाः सुराः स्म जल्पन्ति विघ्नमस्य भवेत् कथं ॥ ५९॥ इन्द्रोऽवक स्त्रीषु लोलोऽयं यदुमापाणिपीडने । अग्निकर्मणि नियुक्तो गौरी दूषितवाससम् ॥ ५२ ॥ दृष्ट्वा क्षुब्धो बीजसगं कृत्वा वासो व्यधूनयत् । अथ तत् पतितं कुम्भे द्रोणाचार्यस्ततोऽभवत् ॥ युग्मम्॥ सप्तर्षयः सुराधीशा देवा हरिहरादयः । मुक्त्वैकं श्रीमहावीरं खण्डिता हि मनोभुवा ॥ ५४ ॥ उग्रव्रतधरास्तीव्रतपश्चरणकारिणः । अन्येऽपि स्मरबाणार्ता दासा स्त्रीभिर्न के कृताः ॥ ५५॥ उत्तमा सर्वदेवीनामतो गत्वा तिलोत्तमा । पितामहं स्मरोद्रेकाद् विदधातु तपश्युतम् ॥ ५६ ॥ इन्द्रादेशादथ क्षिप्रं स्वपरिच्छदसंयुता । गत्वा तिलोत्तमा धातुः पुरो नृत्वमसूत्रयत् ॥ ५७ ॥ यथा यथाऽसौ नृत्यन्ती करेणोल्लासितांशुका । विधेरदर्शयत् स्वाङ्गं चुक्षोभ' स तथा तथा ॥ ५८ ॥ तस्या निमालयन्नझं विधाता निर्निमेषक् । त्यक्तान्यसर्वव्यापारः कामिवत् तत्पृहोऽभवत् ॥ ५९॥ विज्ञाय सापि तद्भावं लावण्यामृतसारणिः । ब्रह्मणो दक्षिणे पार्श्वे भूत्वा नृत्यमसूत्रयत् ॥ ६ ॥ ॥ तद्रूपमोहितः स्वान्तः सोऽपि कामज्वरादितः । तां विलोकयितुं वकं द्वितीयं निर्ममे पुनः ॥ ६१ ॥ एवं तृतीयं वारुण्यां कौबेयाँ घ चतुर्थकम् । तस्यामूर्ध्वगतायां तु स चक्रे पञ्चमं मुखम् ॥ ६२ ॥ तिलोत्तमानुरक्तस्व ब्रह्मणः पञ्चमं मुखम् । रुद्रेण पर्युतीक्ष्णेन नखेनाऽछिद्यताऽऽशु तत् ॥ ६३ ॥ ततो ब्रह्मातिकोपेनापसव्यफरजातपा । प्रदेशिन्योद्वर्थ भालं शेषं समुपपाटयत् ॥ ६४ ॥ सितकुण्डलिमामा स क्रोधार धावा म्ययोज्यत । गौरी प्राणेश्वरं हन्तुं व्याधवन्मार्गणो मृगे ॥ ६ ॥ नश्वस्तस्य भिया शम्भुर्गस्वा बदरिकाऽऽश्रमे । नियमस्थं हरिं मह्यं भिक्षा देहीत्यभाषत ।। ६६॥ ततस्तेन निजाद् भाला रक्तधारा व्यमुच्यत । तदधो स्थापयत् सोऽपि ब्रह्मणः पञ्चमं शिरः ॥६॥ रक्तेमापरिपूर्ण तत् सहजैः शरदामपि । हरो पिलोडयामास करालिकयैकया ॥ ६॥ पितामहशिरोविष्णुरक्तेशाङ्गुलियोगतः । समुत्पेदे महांस्तत्रैको नरो रक्तकुण्डली ॥ ६९ ।। रुद्रेणादेशि योद्धुं स सितकुण्डलिना सह । ततो वर्षसहस्रं तु जातमायोधनं तयोः ॥ ७० ॥ तयोर्युद्धनिषेधाय नरं दत्त्वा सुरेशितुः । भास्करस्य द्वितीयं तु सुरा ऊचुरिदं रविम् ।। ७१ ॥ वरदानक्षणे सूर्य ! त्वया भारतसंयते । भारतावतारकालेऽसाववतार्यो नृजन्मनि ॥ ७२ ॥ तस्मिन् काले रविः कुन्तीमुपभुज्यतुसङ्गताम् । तत् कुक्षी तं नरं चाशु गर्भत्वेनोदपादयत् ॥ ७३ ॥ सन्नद्धषद्धसन्नाहः कुन्त्याः कर्णात् स निर्ययो । यथा तथा त्वमप्यस्मात् कुण्डीरन्ध्राद् विनिःसृतः॥४॥ यच्चावोचः कथं गङ्गामपारा तीर्णवानहम् । अदोऽर्थसाधकं भद्र ! शृणु रामायणोदितम् ॥ ७५ ॥ ॥ हनुमान् राघवादिष्टो जानकीशुद्धिहेतवे । तीत्वा भुजाभ्यामम्भोधि क्षणाल्लंकापुरीमगात् ।। ७६ ।। दृष्टया सीतया तत्र प्रियसन्देशतुष्टया । पृष्टः कथं त्वया सिन्धुस्तीर्णः सोऽप्यब्रवीदिति ॥ ७७ ।।
तव प्रसादात् तव च प्रसादाद् भर्तुच ते देवि तव प्रसादात् ।
साधूनते येन पितुः प्रसादात् तीर्णो मया गोष्पदवत् समुद्रः॥ ७८ ॥ यदि तेन तिरश्चापि समुत्तीर्णो महार्णवः । तदा गङ्गा त्वया किं न लमयते स्म नरोत्तम ! ॥ ७९ ॥ ॥ यदवादीः कथं धारा षण्मासी मूर्ति धारिता । अस्मिन्नर्थेऽपि हेतुं त्वं शृणु भूदेवभाषितम् ॥ ८ ॥ सुरैरभ्यर्थिता गङ्गा लोकानां हितहेतवे । भूमाववातरत् स्वर्गात् साऽप्येवं तानवोचत ।। ८१ ॥
1A चुक्षुमे। 2A तस्या मूर्द्ध। 3 B समुदपादयत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org