________________
३६
धूर्ताख्यानसंस्कृतभाषान्तरम् ।
युष्मास्विलां पतन्तीं मां को धशस्तदाऽवदत् । अहमित्यूचुषा तेन सा धृता निजमूर्द्धनि ॥ ८२ ॥ दिव्यं वर्षसहस्रं चेत् तेन गङ्गा धृता स्वके । तत् त्वं कथं न षण्मासीं वारिधारामधारयः ? ॥ ८३ ॥ ॥ इति धूर्ताख्याने प्रथमं मूलदेवकथानकम् ॥
[ २. कण्डरीककथितं कथानकम् । ]
*
1
• एवं निरुत्तरो मूलदेवः प्रोवाच तं प्रति । कंडरीक ! त्वमप्यात्मानुभूतं वद किञ्चन ॥ ८४ ॥ कण्डरीकोऽवदद् बाल्ये दुर्विनीतो भवन्तराम् । पितृभ्यामत एवाहं हठान्निर्वासितो गृहात् ॥ ८५ ॥ ततो भ्राम्यन्नहं देशानेकं गोमहिषीवृतम् । कूपाऽऽरामसरोराजीराजितं ग्राममासदम् ॥ ८६ ॥ पोपचारबलिभिः स जनैः पूजितोऽनिशम् । समीहितं वरं दत्ते को न मान्यो भवेद् गुणैः ॥ ८७ ॥ ततस्तं कौतुकाद् यक्षं नत्वा ग्राम्यजनेष्वहम् । यावद् विचित्रक्रीडाभिरात्मानं स्म विनोदये ॥ ८८ ॥ 10] सन्नद्धबद्धकवचा विविधायुधपाणयः । सुतरां दारुणास्तावन्निपेतुस्तत्र तस्कराः ॥ ८९ ॥
सबालवृद्धाः सस्त्रीका ग्राम्या जनपदान्विताः । पशुभिश्च समं मीत्या वालुक्यां विविशुर्युतम् ॥ ९० ॥ तत्रस्थानपि तान् ग्राम्यानपश्यन्तोऽन्धला इव । चौरास्ततस्ते व्यावृत्ता नष्टो ग्राम इतीरिणः ॥ ९१ ॥ पशुवृन्दं चरत् तत्र विश्वस्तं समुपेयिवान्' । तन्मध्यादेकया छाग्या वालुकी परिजनसे ॥ ९२ ॥ साऽपि प्रस्ताऽजगरेण सोऽपि ढिङ्केन जयसे । स चोड्डीय वटेऽतिष्ठद् भूमिप्राप्तपदः खगः ॥ ९३ ॥ 15 तत्र केनापि भूपेन सैन्यावासे विनिर्मिते । स्तम्भभ्रान्त्या ढिकपादे बद्धो गिण्ठेन कुञ्जरः ॥ ९४ ॥ ढिनोड्डीयमानेन सह यान्तं विलोक्य तम् । पूञ्चकुरिति हा मिष्ठाः केनापि ह्रियते करी ॥ ९५ ॥ तेषां कलकलं श्रुत्वा सुभटाः शब्दवेधिनः । तत्रेयुराकुला बाणबाणासनकरा रयात् ॥ ९६ ॥ सुभटैः शरधोरण्या छिन्नमूर्धा वटच्युतः । ढिकपक्षी पपाताशु वज्रपात इव क्षितौ ॥ ९७ ॥ पक्ष्यने दारिते राज्ञाऽजगरो निरगात् ततः । अजा तस्याश्च वालुकी ततो प्रामादयोऽखिलाः ॥ ९८ ॥ " ते सर्वे नृपतिं नत्वा स्वत्ववस्तुसमन्विताः । निजस्थानं ययुरहमत्रायातश्च संप्रति ॥ ९९ ॥ एवं मयानुभूतं भो गदितं भवतां पुरः । यो न रान्येत धूर्तानां स ददात्वद्य भोजनम् ॥ १०० ॥
[ अथ एलाषाढकृतं कण्डरीककथानकसमाधानम् । ]
ॐ
एलाषाढस्ततः प्रोचे प्रतीमो नात्र संशयः । कण्डरीकोऽवदद् प्रामो वालुयन्तः कथं ममौ ॥ १०१॥ एलाषाढोऽथ तं स्माह किं भ्रातर्न श्रुतास्त्वया । दृष्टान्ता विष्णुपुराणे भारते च किलेदृशाः ॥ १०२ ॥ 2 आसीत् पुरा जगत् पञ्चमहद्भूतविवर्जितम् । जलेनैकार्णवीभूतं तत्राण्डमभवत् किल ॥ १०३ ॥ ऊर्मिप्रेङ्खोलनाभिस्तद्भिन्नं त्रिविधतामगात् । त्रिविष्टप- महीपीठ - रसातलविभेदतः ॥ १०४ ॥
1. A. किंकराः । 2 A तत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org