________________
२. कण्डरीककथितं कथानकम् । यद्यण्डे तादृशं सर्व सममाजगतीत्रयम्' । वालुङ्गयां तर्हि स ग्रामः कथं माति न बान्धव! ॥१०५॥ शास्त्रेऽन्यच्चारण्यपथे मार्कण्डेयोऽवदन्मुनिः । धर्माङ्गजस्यान्ययुगानुभूतं तच्छ्रुतीकुरु ॥ १०६ ।। स किलाम्भोभिरभ्रोत्थैर्लोक एकार्णवीकृते । लोलकल्लोलमालाभिः प्रेर्यमाणोऽम्बुधौ गतः ॥ १०७ ॥ सर्वशून्यं जलाऽऽकीर्णं जगत् पश्यन्नृषिस्ततः । एकं तत्र महाकाय वटवृक्षमुदैक्षत ॥ १०८॥ शाखायां तस्य पल्यङ्कमपश्यत् तत्र चार्भकम् । सर्वाङ्गसुन्दराऽऽकारं तेजस्तर्जितभास्करम् ॥ १०९ ॥ प्रसारितकरं तं चावादीदेोहि दारक ! । ममांसे लगतामम्भस्सु पतनान्मा स्म भून्मृतिः ॥ ११ ॥ सोऽप्यसमवलम्ब्यास्यावातारीत् स ततो मुनिः। आस्ये प्रसारितेऽपश्यद् विश्वं तस्योदरेऽखिलम् ॥१११॥ प्रविष्टस्तत्र वर्षाणां सहस्रं दिव्यमञ्जसा । भ्रमन् पारमपारस्य नाऽऽपर्षिनिरगात् ततः॥ ११२ ॥ सशैलकाननं विश्वं ममौ चेद् दारकोदरे । तदा माति न किं ग्रामो वालुक्यां कण्डरीक भोः! ॥११३॥ ढिकोदरे ह्यजगरस्तस्याजाऽस्याश्च चिर्भटी । तस्यां ग्रामः कथमिति प्राख्यस्तच्छृणु वच्म्यहम् ।।११४॥" यदि त्रिजगती सर्वा ममौ विष्णोः किलोदरे । कुक्षौ सोऽपि हि देवक्यास्तल्पस्याभ्यन्तरेऽपि सा ॥११५॥ यदि सत्यं पुराणोक्तं वचनं प्रतिभासते । तदा प्रामादिप्रवेशा वालुक्यादौ न दोषदाः ॥ ११६ ॥ वालुक्यजगरान्तःस्थः कथं नासादयं मृतिम् । इति तेन कृते प्रश्ने ह्येलाषाढोऽब्रवीदिति ॥ ११७ ।। तस्मिन्नेवाहनि भवान्निर्गतो न मृतो ह्यतः । चिरं विष्णूदरे तिष्ठजगजीवति नाद्भुतम् ॥ ११८ ।। यस्मिन्नुदरगे सन्ति वाणिज्यं योधसंयतः । आरम्भा व्यवहाराश्चोत्सवा वैवाहिकादयः ॥ ११९ ॥ ॥ कथमस्योदरे विश्वमिति पृच्छसि तच्छृणु । पुरा परस्परं युद्धं ब्रह्म-केशवयोरभूत् ॥ १२० ॥ दीनो ब्रह्मा हरिं स्माह वक्त्रबाहूरुपादतः । मदीयेभ्यो जगत् सर्वं चातुर्वण्यं विनिर्गतम् ॥ १२१ ॥ . विधिमाक्षिप्तवान् विष्णुर्वचनैः कठिनैरलम् । रे रे त्वं चेटरूपो मे ब्रुवन्नेवं न लजसे ॥ १२२ ॥ कण्ठस्थ शेषे भूपीध्रदाढे सागर जिह्व के । मन्मुखे त्वं प्रविश्याशु पश्य विश्वं चराचरम् ।। १२३ ।। जलेशयस्य मे नाभिसमुत्थाम्भोजतो भवान् । प्रादुर्भूतो ह्यतो वक्तुं मत्पुरो नोचितं तव ॥ १२४ ॥ ० अपि च-यत्प्रभावात् प्रकाशकत्वमगमत् कौमुदं वनम् ।।
कलङ्कीति निशाधीशं खोत्कर्षात् तद्धसत्यहो ॥ १२५ ॥ कण्डरीको बभाषे किं पुराणादौ श्रुताः क्वचित् । ढिका एवंप्रमाणाः स्युरेतन्माति यदन्तरे ॥ १२६॥ एलाषाढोऽपि तं स्माह द्रौपद्या हि स्वयंवरे । प्राविक्षत् धनुषि क्षोणीभूधरवह्निभुजङ्गमाः ॥ १२७ ।। यः श्रीदुपदराजस्य तद्देवाधिष्ठितं धनुः । राधां भेत्ता' समारोप्य स कृष्णां परिणेष्यति ॥ १२८ ॥ ॥ आघोषणामिमां श्रुत्वा तत्रेत्य बलिनो नृपाः । धनुरारोपयन्तस्ते पतिता हसिता जनैः ॥ १२९॥ अथ मानोन्नतः शूरः शिशुपालक्षितीश्वरः । आरोपयितुमारेभे यावद् राधाभिदे धनुः ॥ १३०॥ तावत् तत्र हरिर्मेरं गरुडं मुशलं हलम् । नागान् शङ्ख गदां चक्रं मन्दरं क्षिप्तवांश्च सः॥ १३१ ।। सन्धानापसरे सूरं विधुमग्निं पयोनिधीन् । सशैलामचलांस्तत्र चापे चिक्षेप केशवः ॥ १३२॥ अर्कीलप्रमाणेऽस्मिंस्तेनाकृष्टे गुरुद्विषा । छलेन मोचिते बाणे सचापश्चेदिपोऽपतत् ।। १३३ ॥ ॥ पार्थो ऽथासहमानायामुयां तद् भारमञ्जसा । आरुह्य मीमहस्ताने चापारोपणमातनोत् ॥ १३४ ॥ कर्णप्रदत्तबाणेनार्जुनो राधां विभिद्य ताम् । यशः संप्राप्तवान् लोके कृष्णां च परिणीतवान् ॥ १३ ॥
1B जगतां त्रयम् । 2 B सकला। 3 B लगतेऽ। 4 B गान्मृतिः। 5A प्रविभासते। 6A विष्णोदरे। 7A मेत्त्वा। 8A पार्थो वा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org