Book Title: Dhurtakhyan
Author(s): Haribhadrasuri, Jinvijay
Publisher: Saraswati Pustak Bhandar Ahmedabad

View full book text
Previous | Next

Page 122
________________ १. मूलदेवकथितं कथानकम् । दिव्यं सहस्रं वर्षाणां तपः कुर्वति धातरि । क्षुब्धाः सुराः स्म जल्पन्ति विघ्नमस्य भवेत् कथं ॥ ५९॥ इन्द्रोऽवक स्त्रीषु लोलोऽयं यदुमापाणिपीडने । अग्निकर्मणि नियुक्तो गौरी दूषितवाससम् ॥ ५२ ॥ दृष्ट्वा क्षुब्धो बीजसगं कृत्वा वासो व्यधूनयत् । अथ तत् पतितं कुम्भे द्रोणाचार्यस्ततोऽभवत् ॥ युग्मम्॥ सप्तर्षयः सुराधीशा देवा हरिहरादयः । मुक्त्वैकं श्रीमहावीरं खण्डिता हि मनोभुवा ॥ ५४ ॥ उग्रव्रतधरास्तीव्रतपश्चरणकारिणः । अन्येऽपि स्मरबाणार्ता दासा स्त्रीभिर्न के कृताः ॥ ५५॥ उत्तमा सर्वदेवीनामतो गत्वा तिलोत्तमा । पितामहं स्मरोद्रेकाद् विदधातु तपश्युतम् ॥ ५६ ॥ इन्द्रादेशादथ क्षिप्रं स्वपरिच्छदसंयुता । गत्वा तिलोत्तमा धातुः पुरो नृत्वमसूत्रयत् ॥ ५७ ॥ यथा यथाऽसौ नृत्यन्ती करेणोल्लासितांशुका । विधेरदर्शयत् स्वाङ्गं चुक्षोभ' स तथा तथा ॥ ५८ ॥ तस्या निमालयन्नझं विधाता निर्निमेषक् । त्यक्तान्यसर्वव्यापारः कामिवत् तत्पृहोऽभवत् ॥ ५९॥ विज्ञाय सापि तद्भावं लावण्यामृतसारणिः । ब्रह्मणो दक्षिणे पार्श्वे भूत्वा नृत्यमसूत्रयत् ॥ ६ ॥ ॥ तद्रूपमोहितः स्वान्तः सोऽपि कामज्वरादितः । तां विलोकयितुं वकं द्वितीयं निर्ममे पुनः ॥ ६१ ॥ एवं तृतीयं वारुण्यां कौबेयाँ घ चतुर्थकम् । तस्यामूर्ध्वगतायां तु स चक्रे पञ्चमं मुखम् ॥ ६२ ॥ तिलोत्तमानुरक्तस्व ब्रह्मणः पञ्चमं मुखम् । रुद्रेण पर्युतीक्ष्णेन नखेनाऽछिद्यताऽऽशु तत् ॥ ६३ ॥ ततो ब्रह्मातिकोपेनापसव्यफरजातपा । प्रदेशिन्योद्वर्थ भालं शेषं समुपपाटयत् ॥ ६४ ॥ सितकुण्डलिमामा स क्रोधार धावा म्ययोज्यत । गौरी प्राणेश्वरं हन्तुं व्याधवन्मार्गणो मृगे ॥ ६ ॥ नश्वस्तस्य भिया शम्भुर्गस्वा बदरिकाऽऽश्रमे । नियमस्थं हरिं मह्यं भिक्षा देहीत्यभाषत ।। ६६॥ ततस्तेन निजाद् भाला रक्तधारा व्यमुच्यत । तदधो स्थापयत् सोऽपि ब्रह्मणः पञ्चमं शिरः ॥६॥ रक्तेमापरिपूर्ण तत् सहजैः शरदामपि । हरो पिलोडयामास करालिकयैकया ॥ ६॥ पितामहशिरोविष्णुरक्तेशाङ्गुलियोगतः । समुत्पेदे महांस्तत्रैको नरो रक्तकुण्डली ॥ ६९ ।। रुद्रेणादेशि योद्धुं स सितकुण्डलिना सह । ततो वर्षसहस्रं तु जातमायोधनं तयोः ॥ ७० ॥ तयोर्युद्धनिषेधाय नरं दत्त्वा सुरेशितुः । भास्करस्य द्वितीयं तु सुरा ऊचुरिदं रविम् ।। ७१ ॥ वरदानक्षणे सूर्य ! त्वया भारतसंयते । भारतावतारकालेऽसाववतार्यो नृजन्मनि ॥ ७२ ॥ तस्मिन् काले रविः कुन्तीमुपभुज्यतुसङ्गताम् । तत् कुक्षी तं नरं चाशु गर्भत्वेनोदपादयत् ॥ ७३ ॥ सन्नद्धषद्धसन्नाहः कुन्त्याः कर्णात् स निर्ययो । यथा तथा त्वमप्यस्मात् कुण्डीरन्ध्राद् विनिःसृतः॥४॥ यच्चावोचः कथं गङ्गामपारा तीर्णवानहम् । अदोऽर्थसाधकं भद्र ! शृणु रामायणोदितम् ॥ ७५ ॥ ॥ हनुमान् राघवादिष्टो जानकीशुद्धिहेतवे । तीत्वा भुजाभ्यामम्भोधि क्षणाल्लंकापुरीमगात् ।। ७६ ।। दृष्टया सीतया तत्र प्रियसन्देशतुष्टया । पृष्टः कथं त्वया सिन्धुस्तीर्णः सोऽप्यब्रवीदिति ॥ ७७ ।। तव प्रसादात् तव च प्रसादाद् भर्तुच ते देवि तव प्रसादात् । साधूनते येन पितुः प्रसादात् तीर्णो मया गोष्पदवत् समुद्रः॥ ७८ ॥ यदि तेन तिरश्चापि समुत्तीर्णो महार्णवः । तदा गङ्गा त्वया किं न लमयते स्म नरोत्तम ! ॥ ७९ ॥ ॥ यदवादीः कथं धारा षण्मासी मूर्ति धारिता । अस्मिन्नर्थेऽपि हेतुं त्वं शृणु भूदेवभाषितम् ॥ ८ ॥ सुरैरभ्यर्थिता गङ्गा लोकानां हितहेतवे । भूमाववातरत् स्वर्गात् साऽप्येवं तानवोचत ।। ८१ ॥ 1A चुक्षुमे। 2A तस्या मूर्द्ध। 3 B समुदपादयत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160