Book Title: Dhurtakhyan
Author(s): Haribhadrasuri, Jinvijay
Publisher: Saraswati Pustak Bhandar Ahmedabad

View full book text
Previous | Next

Page 120
________________ श्रीसपतिलकाचार्यकृतं धूर्ताख्यानसंस्कृतभाषान्तरम् । [प्रास्ताविकम् ।] समस्ति' भारते वर्षे हर्षोत्कर्षकरे सताम् । श्रीअवन्त्यायो देशो लेशो यत्र न पाप्मनाम् ॥ १॥ स्वःपुरीजयिनी तत्र समस्त्युजयिनी पुरी । यां द्रष्टुमिव गीर्वाणा निर्निमेषत्वमाश्रिताः ॥ २॥ तमालतालहिन्तालरसालावलिमालितम् । तस्या उत्तरदिग्भागे जीर्णोद्यानाभिधं वनम् ॥ ३॥ नन्दनायैरलं फल्गुफलैर्भाग्यफलस्त्वहम् । नृत्यतीवेति यद्वातविधूतैः पल्लवैः करैः ॥ ४ ॥ तमामात्रदुमेऽन्येदुर्वाचाला निकृतित्रताः । भूयांसो भूरिदेशेभ्यः समीयुबूंर्तपुङ्गवाः ॥ ५ ॥ देरवस्वापिनी-प्राज्यरूपिणी-मोहिनीमुखैः । धूपयोगाञ्जनाद्यैश्च दम्भैः कः को न वश्चितः ॥ ६॥ मूलदेवः कण्डरीके एलापाढः शशाह्वर्यः । खण्डपानाभिधा स्त्रीश्च तेषां पञ्चेश्वरा अमी ॥ ७ ॥ प्रलोकं ते नृधूर्तानां पञ्चशत्या परिवृताः । खण्डपाना किलैका तु नारीपञ्चशतान्विता ॥ ८ ॥ वर्षाकालस्तदा प्रादुरासीन्नि शितातपः । प्रकाशयन् घनैः 'स्वस्य राज्यमेकातपत्रितम् ॥ ९॥ सप्ताहवारिदेनाम्बुवृष्टिं विद्धताधिकम् । बभूवाबालजम्बालपिच्छिलं क्षोणिमण्डलम् ॥ १०॥ तदा धूर्ताः क्षुधाक्रान्ताः शीतेन परिपीडिताः । परस्परं वदन्ति स्म को नो दाताऽद्य भोजनम् ॥११॥ जगाद मूलदेवोऽथ स्वानुभूतं श्रुतं हि वा । यद्येन वृत्तं तत् तेन धूर्तानां कथ्यतां पुरः ॥ १२॥ यस्तन्न मन्यते तेषु वचः सत्यतया पुनः । तेन देयं समप्राणां धूर्तानामद्य भोजनम् ॥ १३ ॥ श्रीभारतपुराणोक्त रामायणनिरूपितैः । संवादिवचनै तन् प्रत्याययति यः पुनः ॥ १४ ॥ स धूर्तानां शिरोरत्नमददानोऽपि भोजनम् । इत्युक्त्वा मूलदेवोऽथ प्रथमं तानभाषत ॥ १५ ॥ । [१. मूलदेवकथितं कथानकम् ।] मया तरुणभावे यदनुभूतं महाधियः । तदाकर्णयतोत्कर्णाः कथ्यमानमिहाधुना ॥ १६ ॥ एकदा तरुणत्वेऽहमीहमानः सुखासिकाम् । कमण्डलुछत्रपाणिः स्कन्धविन्यस्तकम्बलः ॥ १७ ॥ दिधीर्षः स्वर्णदीधारां प्रस्थितः स्कन्दमन्दिरम् । यावत्तावन्मदोन्मत्तो दन्ती प्रादुरभूत् पुरः।। युग्मम्॥ पर्जन्य इव गर्जन्तं सिञ्चन्तं मां मदाम्बुभिः । अभ्यायान्तमिभं पश्यन्नातकव्याकुलोऽभवम् ॥१९॥ एतस्मात् कथमात्मानं कृतान्तात् कुपितादिव । पास्यामीति भयावेशात् प्राविशं कुण्डिकान्तरे ॥२०॥ मदभिन्नकटः सोऽपि करटी प्रसरत्करः । ममानुपदिकः कुण्ड्यां प्राविक्षन्नालकाध्वना ॥ २१॥ ॥ 1 A समस्त । 2 B घनैस्तस्य। 3 A बभूव बाल । 4 A. पुराणोक्ति। 5A नः। 6 B नराधिपः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160