Book Title: Dhanya Charitam Padyam
Author(s): Vijayanandsuri
Publisher: ZZZ Unknown
View full book text
________________
प्रक्षाल्येतां पुनः पादौ, देवरो विद्यते यथा ॥८९॥ ततः सरोक्रं जन्मुः, साकं ता मन्त्रिभिर्द्धतम्। धन्योऽप्याकारितस्तत्र, बहु विज्ञप्य सत्वरम् ॥९०॥ भ्रातृजाया भृतापाया वीक्ष्य धन्योऽनमत पुरा । गिरा सुधाकिरा ताच, भाषते स्म सुभाषणः ॥११॥ किमर्थमागता यूयं, किमस्माभिः प्रयोजनम् । विनार्थ कोऽपि नायाति, नाकारयति कश्चन ॥ ९२ ॥ प्रोचुस्ता देवरोऽस्माकं, प्राणेभ्योऽन्यतिवल्लभः । न प्रीणयसि नः कस्मात् , पूर्ववन्नमसम्पदा १ ॥ ९३ ।। धन्योऽवक् कि भ्रमो बोऽत्र, किं वा चित्तविपर्ययः । गार्थल्यग्रथना वाऽस्तु, वस्तु स्त्रीत्वस्वभावतः १ ॥ ९४ ।। योऽतिप्रीतोऽस्ति वो धन्यः, स त्वन्यो मन्यतां ननु । श्रुतो राजगृहेशस्य, सुतापतिरिति अतिः ॥ ९५॥ तास्तिस्रोऽपि पुनः प्रोचु-नुच्चैर्वचनाचनाः । स नु(तु) विज्ञायतेऽस्माभि-लक्षणेन विचक्षणः ॥ ९६ ॥ लक्षणं लक्ष्यते मुख्य, देवरस्य क्रमाम्बुजे । तत् तत् प्रक्षाल्य ते भक्त्या, ज्ञास्यामो निजदेवरम् ॥ ९७ ॥ धन्यः प्रोचे परस्त्रीणां, स्पर्शः पातकजातकृत । सत्रा परखिया नाह, भाषे का स्पर्शसंकथा १ ॥ ९८ ॥ तेनेत्युक्ते हिया व्यक्ते, तास्तूष्णीमाललम्बिरे । परायत्ते पुनर्यले, किं करोति महानह ? ॥ ९९ ॥ मन्त्रिमिस्तु धिया बुद्ध्वा, परमार्थयरिस्पृशा ! स एव देवरोऽस्त्यासाभेष येषान्तरापरः ॥ १.०॥ मन्त्रिणस्तमथ प्रोचु-र्धन्यमन्येतरं गिरा । मा खेदय दयाशद !, भ्रातृजाया निजा मुधा ।। १०१॥ इत्याधमात्यसम्प्रोक्ते, स्नेहाईः स्वयमप्ययम् । तदा विदितीकृत्य, भ्रातृपत्नी नाम सः ॥ १०२ ॥ सहसा मधुरोदार-गिरा | प्रीतिकिरा चिरात् । समानन्य तदाऽऽशु स्वं, मन्दिर प्रेषयत् खलु ॥ १०३॥ अथ सैन्यसमारम्भ-प्रारम्भ प्रोज्झ्य तत्परम् । नृपं प्रत्याययौ श्रीत्या-ज्यत्या विनयवामनः ।। १०४ ॥ राजाऽप्याजावुपा(दासीनो, धन्यमुदीक्ष्य दक्षिणम् । सिंहासनार्धदानादि, | दत्वा गौरवगौरवम् ॥ १०५॥ जगाद सादरं सद्यः, सुधास्वादास्पदं पदम् । ' सन्तो हि सत्समायोगेऽ-पयोगे मधुरा गिरा।

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82