Book Title: Dhanya Charitam Padyam
Author(s): Vijayanandsuri
Publisher: ZZZ Unknown
View full book text
________________
य
५।
ब)
महत्या तद्दिक्षया । कौतुकं पूरयामास, स्वद्यशोद्वयभ्रमिषु ॥ ५३ ॥ तं वासरमतिक्रम्य, रम्ये कदलिकानने । सप्रियोऽपि स सुष्वाप, रात्रावयवसौख्यतः ॥ ५४ ॥ एवं दिनानि भूयांसि समुपास्य सुखं मुदा । प्रियाप्रियावतिप्रष्ठ- सुखाश्लिष्टावतिष्ठतम् ॥५५॥ पुनः प्रवहणेष्वेवं पूर्वेषामेषुतः । दधत् खौको मृगाकोऽचिन्तयच्च तत् ॥ ५६ ॥ यदेतया पुरा गर्वाद्, दुर्वचोऽवाचि वाच्यवत् । तदेतस्या य (अ) वश्यायाः कुर्वे दुर्वेधवद् धियः॥ ५७॥ ध्यात्वेति चेत सैकत्र, रात्रावेव विधेर्वशात् । कपर्दा शीतिप्रमितं, पणं बध्वा तदञ्चले ||५८|| सुप्तामेव विमुच्याशु, निभृतं सम्भृताक्षपम् (पद्मावतीं त्यक्ता, सप्रियोऽपि प्रियामपि) । समुत्थायावहित्थात्मा, मृगाङ्कः अपलायत ॥५९॥ त्रिभिर्विशेषकम् । प्राप्य पोतसमीपे स, कपटं नाटयन् पटु । पूच्चकारेति दुर्वारं वारं वारं दुरन्तरम् ॥ ६० ॥ यद् भो भोः ! भक्षिताऽत्राशु, प्रेयसी रक्षसा स्पसा । दृष्ट्वा नष्ट्रा पलाय्याया - महं कष्टादनिष्टतः ॥ ६१ ॥ येयेन्तां यानपा तत् त्वरितं भरितं यतः । समेष्यति न चेद् रक्षः, क्षामकुक्षि बुभुक्षया ॥ ६२ ॥ एवमुक्ते मिया मुक्ते, तेन तदयितेन हि । प्रेरित तैः प्रवहणं, वायुवेगमनर्गलम् || ६३ || इतश्र सा जजागार, कृस्वमेनेव बोधिता । सम्भ्रान्तेव क्षपाप्रान्ते, प्रेयांसं न समैक्षत ।। ६४ ।। तदोत्थायाचिरायारं, तीरं कृत्वा सरित्पतेः । नापश्यत् पोतमुत्पशा, पोतवच्चेतसः प्रियम् ॥ ६५ ॥ इतस्ततस्तदालोक्य, सर्वशून्यमिवाध सा । शोकास्तोकतया तप्ता ऽपसद् विमुमूर्च्छच ॥ ६६ ॥ प्रातः शीतेन वादेन, विनीतेनेव बन्धुना । क्षण लम्मितचैतन्या, रोदःक्षोदं रुरोद सा ॥ ६७ ॥ द्वीपवच्छ्रन्यवेश्मान्त - मलतीव वनान्तरे । व्यर्थ सा विललापों-र्न केनापि निवारिता ॥ ६८ ॥ स्वयं वस्त्राञ्जलेनास्र-मपनेतुमना मनाक् । कपर्दकपणं बद्धं ददर्श विममर्श च ॥ ६९ ॥ तद् बाल्योक्तं स्मृतवती, चित्ते चिन्तितवत्यपि । अहो ! वञ्चादपि प्रायः पुरुषाः परुषा रुषा ।। ७० ।। अथ प्राप्तस्वरूपा सा व्यानृत्य
7

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82