Book Title: Danadiprakarana
Author(s): Suracharya, Amrutlal Bhojak, Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 18
________________ द्वितीयोऽवसरः धर्मस्य निर्मलधियामथ साधनानि सद्दानशीलसुतपांसि सभावनानि । श्रीमजिनोऽभ्यधित(४) विश्वजनीनवाक्यः कस्यापि साधनविधिः किल कोऽपि शक्यः ॥१॥ ज्ञानस्याचं दानमत्रानिदानं । दातुर्लातुर्धर्मसिद्धेर्निदानम् । - - - न्यत् स्यात् सुवानां निधानं तेनैवादावुक्तमेतत् प्रधानम् ॥२।। अभयान्ना[८-२]दिभ्यां(?) तु प्रवर्तननिवर्तनेन मानाम । अर्थेऽनर्थे च यथा ज्ञाता तेनोत्तमं ज्ञानम् ॥३॥ सर्वपुरुषार्थसिद्धेर्निबन्धनं धीधना वदन्तीदम् । सेन ज्ञानं ददता दत्ताः [सर्वेऽपि पुरुषार्थाः ।।४।। अन्यच्च धर्ममूलं करुणा सा ज्ञानकारणा मिद्धा । सिद्धान्तेऽपि प्रथितं प्रथमं ज्ञानं ततः करुणा ॥५।। धर्मेण चाखिलसुखानि समीहितानि मामरेषु मनुजो लभते हितानि । धर्मः [ ९-१] समस्तसुखसि द्धिनिमित्तमुक्तः सर्वेण वादिनिवहेन विना विवादम् ।।६।। तद्धर्मसाधनमिदं ददताखिलानि सौख्यानि धर्मजनितानि समर्पितानि । वित्तं [पुन]र्वितरता वनितारतादि वस्तूनि वित्तसुलभानि विलोभनानि ॥७॥ लोकेऽपि रूपके दत्ते प्रदत्तं भोजनं जनः । हेतौ कार्योपचारेण निर्विचार वदत्यदः ।।८। लोकद्वयेऽभिलषता विपुलोपकार दातव्यमेतदनिशं करुणापरेण । ज्ञानात् परं न परमस्ति परोपकार सम्पादनं सपदि सम्पदमादधानम् ॥९|| ___Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78