Book Title: Danadiprakarana
Author(s): Suracharya, Amrutlal Bhojak, Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 48
________________ दानादिप्रकरणम् साधुश्चारित्रहीनोऽपि समानो नान्यसाधुभिः । भग्नोऽपि शातकुम्भस्य कुम्भो मृद्धटकैरिव ॥४१॥ यद्यऽद्य दुःषमादोषादनुष्ठानं न दृश्यते । केषाश्चिद् भावचारित्रं तथापि न विहन्यते ।।४२॥ सातिचारचरित्राश्च काले[४७-१]ऽत्र किल साधवः । कथितास्तीर्थनाथेन तत् तथ्यं कथमन्यथा ॥४३॥ कालादिदोषात् केषाञ्चिद् व्यलोकानि विलोक्य ये । सर्वत्र कुर्वतेऽनास्थामात्मानं वञ्चयन्ति ते ॥४४॥ . वहन्ति चेतसा द्वेषं वाचा गृह्णन्ति दूषणम् ।। अनम्रकायाः साधूनां पापिनो दर्शनद्विषः ॥४५॥ इहैव निन्द्याः शिष्टानां मृता गच्छन्ति दुर्गतिम् । निवर्तयन्ति संसारमनन्तं क्लिष्टमानसाः ॥४६॥ इदं विचिन्त्यातिविविक्तचेतसा यमेव किञ्चिद् गुणमल्पमञ्जसा । विलोक्य साधु बहुमा[४७-२]नतः सुधीः प्रपूजयेत् पूर्णमिवाखिलैर्गुणैः ॥४७॥ तथा लभेताविकलं जनः फलं निजाद विशुद्धात् परिणामतः स्फुटम् । अभीष्टमेतत् प्रतिमादिपूजने फलं समारोपसमर्पितं सताम् ॥४८॥ काष्ठोपलादि गुरुदेवबुद्धया ये पूजयन्यत्र विशिष्टभावाः । ते प्राप्नुवन्त्येव फलानि नूनं भावो विशुद्धः फलसिद्विहेतुः ॥४९॥ कालोचितं साधुजनं त्यजन्तो __ मार्गन्ति येऽन्यं कुधियः सुसाधुम् । दानादिपात्रं द्वितयाद् विहीना स्ते दुर्गति यान्ति हि दुर्दुरूढाः ॥५०॥ [४८-१]वस्त्रादिदानमात्रेऽपि पात्रापात्रपरीक्षणम् । क्षुद्राः कुर्वन्ति यत् केचित् तत् कार्पण्यस्य लक्षणम् ॥५१॥ ____Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78