Book Title: Danadiprakarana
Author(s): Suracharya, Amrutlal Bhojak, Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 55
________________ श्रीमत्सूराचार्यविरचितम् इह हि गृहिणां निर्वाणाङ्गं विहाय विहायितं जिनपरिवृद्वैः प्रौढं बाद परं परिकीर्तितम् । न खलु पदतो मुख्येऽमु[५७-२]ष्मिन्नतीव कृतादरैः कृतिभिरनिशं भव्या भाव्यं भवाब्धितितीर्षया ॥१.१॥ ग्लानादीनां पुनरवसर सीदतां क्वापि बाढं यन्नादेयं स्वयमुरुतरं दापनीयाः परेऽपि । काले दत्तं विपुलफलदं येन सम्पद्यतेऽदः सद्धान्यानामिव जलधरैः शुष्यतां मुक्तमम्भः ॥१.२॥ प्रत्तं विपत्तावुपकारि किञ्चित् सम्पद्यते जीवितकल्पमल्पम् । पुंसः पिपासोः सुतरां मुमूर्षो रानीय पानीयमिवोपनीतम् ॥१०३॥ कालेन ता एव पदार्थमात्राः प्रायः कियन्तेऽसुमता महाः । स्वात्यामिवापोऽ[५८-१]पि पयोदमुक्ताः स्थूलामलाः शुक्तिमुखेषु मुक्ताः ॥१०४॥ प्रस्तावमासाद्य सुखाय सद्यः सम्पद्यते दुःखकरः पदार्थः । यूनां मदायेन्दुरिव प्रियाभि योगे वियोगे परितापहेतुः ॥१०५॥ यथन्यदा न क्रियते तथापि व्यापत्सु कार्य गुरुणाऽऽदरेण । अन्नादिदानं महते फलाय कोऽल्पेन नानल्पमुपाददीत ॥१०६॥ इदं विमलमानसो विपुलसम्पदामास्पदं __ पदं च यशसां परं परमपुण्यसम्पादकम् । मुनीन्द्रजनपूजनं जनितसज्जनानन्दनं विधाय विधिनाऽधुनाऽप्यवधुनाति ध[५८-२]न्योऽधमम् ॥१०७॥ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78