Book Title: Danadiprakarana
Author(s): Suracharya, Amrutlal Bhojak, Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 62
________________ दानादिप्रकरणम् भक्तिश्चेजिनशासने जिनपतौ सञ्जायते निश्चला तत्कृत्येषु बलात् प्रवृत्तिरतुला स[६५-१]सम्पद्यते देहिनाम् । भक्तः किङ्करतां करोति दिशति स्वं स्वापतेयं गुणा नादत्ते पिदधाति दूषणगणं प्राणानपि प्रोज्झति ॥१५॥ चैत्यस्य कृत्यानि विलोकयन्तो ये पापभाजो यदि वा यतीनाम् । कुर्वन्त्युपेक्षामपि शक्तियुक्ता मिथ्यादृशस्ते जिनभक्तिमुक्ताः ॥४६।। प्रारम्भोऽप्येष पुण्याय देवायुद्देशतः कृतः । सामग्र्यन्तरपातित्वाज्जोवनाय विषं यथा ॥४७॥ भिन्नहेतुक एवायं भिन्नात्मा भिन्नगोचरः । भिन्नानुबन्धस्तेन स्यात् पुण्यबन्धनिबन्धनम् ॥४८॥ लोभादिहेतुकः पापारम्भो गेहादिगोचरः। पापानुबन्धी सन्त्या[६५-२]ज्यः कार्योऽन्यः पुण्यसाधनः ॥४९॥ धर्मारम्भरतस्य रज्यति जनः कीर्तिः परा जायते राजानोऽनुगुणा भवन्ति गुणिनो गच्छन्ति साहाय्यकम् । चेतः काञ्चननिर्वृतिं च लभते प्रायोऽर्थलाभोऽपरः पापारम्भपरादनर्थविरतिश्चेति प्रतीता भिदा ॥५०॥ न मिथ्यात्वात् प्रमादाद्वा कषायाद्वा प्रवर्तते । श्राद्धो द्रव्यस्तवे तेन तस्य बद्धो(न्धो)ऽस्ति नाशुभः ॥५१॥ [६६-१]शुभः शुभानुबन्धी तु बन्धच्छेदाय जायते । पारम्पर्येण यो बन्धः स प्रबन्धाद् विधीयते ॥५२॥ द्रव्यस्तवे भवति यद्यपि कोऽपि दोषः कूपोपमानकथितोऽतिलघुस्तथापि । कृत्यो गुणाय महते स न कि चिकित्सा क्लेशो गदापगमनाय बुधैर्विधेयः ॥५३॥ लोकोत्तरे गुणगणे बहुमानबुद्धिः शुद्धिः परा स्वमनसो मनुजोत्तमत्वम् । स्याद् धर्मसिद्धिरखिले जगति प्रसिद्धिः सिद्धिः क्रमेण जिनपूजनतो जनानाम् ॥५४॥ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78