Book Title: Danadiprakarana
Author(s): Suracharya, Amrutlal Bhojak, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
दानादिप्रकरणम् दौर्गत्यं यदुदात्तचित्तसुधियां व्याधिव्यथाऽभोगिनां
दौर्भाग्य रमणीयरूपरमणीलोकस्य लक्ष्मीवताम् । तारुण्ये मरणं जितस्मरवपुः श्रीणां जरा श्रीमतां
नैवेदं समपत्स्यतापहृदयं कर्मा भविष्यन्न चेत् ॥५४॥ शील कुलमकल[३६-१]कं कलाकलापातिकौशलं शौर्यम् । खलजन इवोपकारं निखिल विफलयति खलु कर्म ॥५५।। नयविनयादिविभूषितमदूषितापारपौरुषं पुरुषम् । कलुषमकलितमकाले समूलकाषं कषति कर्म ।।५६।। अनुगुणेऽनुगुणं विगुणेऽन्यथा
परिजनस्वजनेष्टजनादिकम् । भवति कर्मणि हन्त ! शरीरिणां
__ नरपताविव पत्तिजनादिकम् ॥५७।। विगुणस्य पुरस्कारं कारयता गुणवतस्तिरस्कारम् ।
(धृ)ष्टादृष्टेनायं निवेदितो निबिडनिजजडिमा ॥५८॥ [३६-२] किश्चाविवाद विषयो विहाय लोकायतं विषयलोलम् । कर्मान्ये मन्यन्ते सामान्येनाऽऽस्तिकाः सर्वे ॥५९॥ धर्माधर्मी सुखदुःखसाधने धीधनैरभिदधाते । तावपि विलोकितफलौ क्वचिदिह लोकेऽपि खल्ल कुशलैः ॥६॥ संयमभाजो जनजनितपूजना भाजनं जना यशसाम् । दृश्यन्ते द्वन्द्वद्वयवियोगिनो योगिनः सुखिनः ॥६१॥ आरम्भे संरम्भात् परिग्रहे चाऽऽग्रहा[६] द्विधा द्वन्द्वः। तनुचित्तसङ्गतो वा न सङ्गतस्त्यक्तसङ्गानाम् ॥६२॥ रागादिरोगपूगापगमात् पर[३७-१]मसुखसङ्गमः सुगमः । आगमर्गादतोऽनुभवानुमानसिद्धो विशुद्धबुद्धीनाम् ॥१३॥ शमोपशमसमुत्थं समनुभवन्त्येव लेशतः शमिनः । शिवशर्म चानागतमुपागतं योगरागेण ॥६४॥ अनुमीयतेऽत एव हि रागाभावः सदुपशमातिशये । सद्भावनया दाह्याभाव इव हुताशनातिशये ॥६५॥ यो यस्येह विरोधी दृष्टस्तस्योदये तदितरस्य । भवति विनाशोऽवश्यं दाह्यस्येवानलाभ्युदये ॥६६॥
___Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78