Book Title: Danadiprakarana
Author(s): Suracharya, Amrutlal Bhojak, Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 44
________________ षष्ठोऽवसरः सङ्घोऽनघः स्फुरदनर्धगुणौ[घ]रत्न __रत्नाकरो हितकरश्च शरीरभाजाम् । निःशेषतीर्थकर मुख्यमुनीन्द्रमान्यः पूज्यो गुरुस्त्रिभुवनेऽपि[४१-२] समोऽस्य नान्यः ॥१॥ श्रीसचतः स भवतीति कृतज्ञभावात् पूज्यं ममापरजनाः परिपूजयन्तु । कार्य विनाऽपि विनयो गुरुणाऽपि कार्यः प्रख्यापयन्निति जिनोऽपि नमस्यतीमम् ॥२॥ क्लेशापहं सपदि सुन्दरनामधेयं । स्मृत्याऽप्यमुष्य परिपुष्यति भागधेयम् । आलापमात्रमपि लुम्पति पातकानि कां योग्यतां तनुमतां तनुते न योगः ॥३॥ श्रीसद्धे परिपूजिते किमु न यत् सम्पूजितं पूजकै रेतस्मिन् गृहमागते किमु न यत् कल्याणमभ्यागतम् । एतत्पादसरोजरा[४२-१]जिरजसा पुंसां समारोहता मूर्धान प्रविधीयते यदधिको शुद्धिस्तदत्रादभुतम् ॥४॥ यत् किश्चनापि सके नियोजितं वितनुते विशिष्टफल[म् । तोयमिव शुक्तिसम्पुटपतितं मुक्ताफलं विमलम् ॥५॥ भनघे सङ्के क्षेत्र श्रद्धाजलसिक्तमुप्तमल्पमपि । अनयति फलं विशालं विटपिनमिव वटतरोबीजम् ॥६॥ वित्तं वितीर्ण विस्तीर्णे पवित्रे पात्रसत्तमे । सङ्घ सजायतेऽनन्तं न्यस्तमर्ण इवार्णवे ॥७॥ समस्तः पूजितः सङ्घः एकदेशेऽपि पूजिते । विन्यस्तमस्तके[४२-२] पुष्पे पूज्यो जायेत पूजितः ॥८॥ गजबजस्येव दिशागजेन्द्राः सङ्घस्य मुख्यास्तु मता मुनीन्द्राः । तेभ्यः प्रदानं विधिना निदान निर्वाणपर्यन्तसुखावलीनाम् ।।९।। Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78