________________
षष्ठोऽवसरः सङ्घोऽनघः स्फुरदनर्धगुणौ[घ]रत्न
__रत्नाकरो हितकरश्च शरीरभाजाम् । निःशेषतीर्थकर मुख्यमुनीन्द्रमान्यः
पूज्यो गुरुस्त्रिभुवनेऽपि[४१-२] समोऽस्य नान्यः ॥१॥ श्रीसचतः स भवतीति कृतज्ञभावात्
पूज्यं ममापरजनाः परिपूजयन्तु । कार्य विनाऽपि विनयो गुरुणाऽपि कार्यः
प्रख्यापयन्निति जिनोऽपि नमस्यतीमम् ॥२॥ क्लेशापहं सपदि सुन्दरनामधेयं ।
स्मृत्याऽप्यमुष्य परिपुष्यति भागधेयम् । आलापमात्रमपि लुम्पति पातकानि
कां योग्यतां तनुमतां तनुते न योगः ॥३॥ श्रीसद्धे परिपूजिते किमु न यत् सम्पूजितं पूजकै
रेतस्मिन् गृहमागते किमु न यत् कल्याणमभ्यागतम् । एतत्पादसरोजरा[४२-१]जिरजसा पुंसां समारोहता
मूर्धान प्रविधीयते यदधिको शुद्धिस्तदत्रादभुतम् ॥४॥ यत् किश्चनापि सके नियोजितं वितनुते विशिष्टफल[म् । तोयमिव शुक्तिसम्पुटपतितं मुक्ताफलं विमलम् ॥५॥ भनघे सङ्के क्षेत्र श्रद्धाजलसिक्तमुप्तमल्पमपि । अनयति फलं विशालं विटपिनमिव वटतरोबीजम् ॥६॥ वित्तं वितीर्ण विस्तीर्णे पवित्रे पात्रसत्तमे । सङ्घ सजायतेऽनन्तं न्यस्तमर्ण इवार्णवे ॥७॥ समस्तः पूजितः सङ्घः एकदेशेऽपि पूजिते । विन्यस्तमस्तके[४२-२] पुष्पे पूज्यो जायेत पूजितः ॥८॥ गजबजस्येव दिशागजेन्द्राः
सङ्घस्य मुख्यास्तु मता मुनीन्द्राः । तेभ्यः प्रदानं विधिना निदान
निर्वाणपर्यन्तसुखावलीनाम् ।।९।।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org