________________
श्रीमत्सूराचार्यविरचितम् साधवो जङ्गम तीर्थ जल्पज्ञानं च साधकः । साधवो देवता मूर्ताः साधुभ्यः साधु नापरम् ॥११॥ तीर्थ ज्ञानं देवता नोपकुर्यात्
सत्त्वानित्थं साधुसार्थों यथोच्चैः । धर्माधर्मप्रेरणावारणाभ्या
मर्थानौँ साधयन् बाधयश्च ।। ११॥ साधूपदेशतः सर्वो धर्ममार्गः प्रवर्तते । विना तु साधुभिः सर्वा तद्वार्ताऽपि निवर्तते ॥१२॥ चारित्रं दर्शनं ज्ञानं मुनिभ्यो नापरं मतम् । त्रयाच नापरं पूज्यं कथं प[ज्याः] न [४३-१] साधवः ॥१३॥ क्वचित् त्रयं द्वयं क्वापि दर्शनार्थोद्यमः क्वचित् । प्रायो न निर्गुणो लिङ्गी स्तुत्यः सर्वस्ततः सताम् ॥१४॥ चित्रेऽपि लिखितो लिङ्गी वन्दनीयो विपश्चिताम् । निश्चितं किं पुनश्चित्तं दधानो जिनशासने ॥१५॥ नानारूपाणि कर्माणि विचित्राश्चित्तवृत्तयः । आत्मनीनं जनः कोऽपि कथञ्चन करोत्यतः ॥१६॥ तस्मान्महान्तो गु[४३-२]णमाददन्तां
दोषानशेषानपि सन्त्यजन्तु । गृह्णन्ति दुग्धं जलमुत्सृजन्ति
हंसाः स्वभावः स निजः शुचीनाम् ॥१७॥ गृह्णन्नामापि नामेह कुर्वन्नामादि किं पुनः । जिनस्य मन्ये मान्यः स्यात् तब्रतानां स्वभावतः ॥१८॥ लेखवाहोऽपि भूपस्य भक्तियुक्तैर्नियुक्तकैः । मान्यते निर्गुणोऽप्येवं लिङ्गी जिनमतस्थितैः ॥१९॥ सर्वज्ञो हृदये यस्य वाचि सामायिकं करे । धर्मध्वजो जगज्ज्येष्ठो ग्रामणीर्गुणिनामसौ ॥२०॥ न सन्ति येषु देशेषु साधवो धर्मदीपकाः । नामापि तेषु धर्म[४४-१]स्य ज्ञायते न कुतः क्रिया ॥२१॥ धर्म कुर्वन्ति रक्षन्ति वर्धयन्ति सुमेधसः । कथं न वन्द्या विश्वस्य साधवो धर्मवेधसः ॥२२।।
____Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org