SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ दानादिप्रकरणम् करणकारणसम्मतिभिस्त्रिधा वचनकायमनोभिरुपार्जयन् । कथमपीह शुभं शुभचेतसां मुनिजनोऽजनि पूजनभाजनम् ॥२३॥ ज्यायः पात्रं श्रेयश्चित्तं स्वायत्तं सद्गेहे वित्तम् । एतल्लभ्य पुण्यैः पूर्ण मुक्तिप्राप्तेर्यानं तूर्णम् ॥२४॥ ज्ञानोत्तमं किमपि किञ्चन दर्शनाढयं __पात्रं पवित्रितजगत्त्रयसच्चरित्रम् । किश्चित् त्रयोगुणमयं द्विगुणं समग्रैः यु[४४-२]क्तं गुणैः किमपि पूज्यमशेषमेव ॥२५॥ मिथ्यात्वध्वान्तविध्वंसे पटीयांसो महौजसः। सद्वृत्ताः कस्य नो पूज्याः स्युः सूर्या इव सूरयः ॥२६॥ तारका इव भूयांसः स्वप्रकाशकरा नराः । प्रकाशयन्तस्तत्त्वानि दुर्लभा भास्करा इव ॥२७॥ किञ्चित्प्रकाशपटवो बहवोऽपि पापाः सन्तापका हुतवहा इव सन्ति लोके । लोकम्प्रि(म्पृ?)णाः प्रकटिताखिलवस्तुतत्त्वाः सत्त्वाधिकाः शशधरा इव पुण्यलभ्याः ॥२८॥ उज्जासयन्तो जाड्यस्य पदार्थानां प्रकाशकाः । भास्क[४५-१]रा इव दुष्प्रापाः साधवो विश्वपावनाः ॥२९॥ निःशेषनिर्मलगुणान्तरसारहेतौ । संसारसागरसमुत्तरणैकसेतो । ज्ञाने यतेः सति सतामतिपूजनीये दौर्जन्यमन्यगुणवीक्षणमेव मन्ये ॥३०॥ आलोकेनैव सन्तापं हरन्तोऽतिमनोहराः । बुधप्रिया विलोक्यन्ते क्वापि पुण्यैः सितांशुकाः ॥३१॥ ज्ञानाधिको वरतरः स्वपरोपकारी मुक्तक्रियोऽपि मतमुन्नमयन् महात्मा । सुष्यतोऽपि करणेन तु शास्त्रशून्यः स्वार्थेऽपि यः कुशलतावि[४५-२]कलो वराकः ॥३२॥ ____Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002612
Book TitleDanadiprakarana
Original Sutra AuthorSuracharya
AuthorAmrutlal Bhojak, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages78
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy