SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ श्रीमत्सूराचार्यविरचितम् जैनं प्रभावयति शासनमङ्गिसार्थ यो बोधयत्यनुपमः कृपया परीतः । त्यक्तक्रियः कथमसौ न कथं तपस्वी स्वाध्यायतो न हि तपोऽस्त्यधिकं न कृत्यम् ॥३३॥ स(अ)ज्ञानि(न)तो मूर्खमतीव साधु यः कष्टचेष्टानिरतं स्तुवीत । मार्गज्ञमन्धं स वदेत् सुदृष्टेः समः समाने हि समेति रागम् ॥३४॥ एनांसि योऽहिरजसाऽपि निहन्ति वाचा मोहं व्यपोहति दृशाऽपि पुनः पुनाति । सङ्गेन दुःखमपनीय तनोति सौख्यं ज्ञानी सतां स महनीयमहानुभावः ॥३५॥ [४६-१] ज्ञाने सति भवत्येव दर्शनं सहभावतः । तेनोभयमिदं पूज्यं विभागस्तु विशेषतः ॥३६॥ शुश्रषा धर्मरागो जिनगुरुजनयोः पूजनाधाभियोगः संवेगो निर्विदुच्चैरसमशमकृपाऽऽस्तिक्यलिङ्गानि येषाम् । शङ्काकाङ्क्षाधभावो जिनवचनरते धार्मिके बन्धुबुद्धिः श्रद्धानं सप्ततत्व्यामिति गुणनिधयः सदृशस्तेऽपि पूज्याः ॥३७॥ दर्शनं प्रथमकारणमुक्त मुक्तिधामगमने मुनिमुख्यैः । ज्ञानमत्र सति तावदवश्य सम्भवेदपि न वा चरणं तु ॥३८॥ इदमशे[४६-२]षगुणान्तरसाधनं ___ सकल सौख्यनिधानमबाधनम् । कुगतिसङ्गतिनिश्चितवारणं निखिलदारुणदूषणदारणम् ॥३९॥ अपगतोऽपि मुनिश्चरणाद् दृशि स्थिरतरः सुतरां परिपूज्यते । शुभमतेमहतां बहुमानत: परिणतिश्चरणेऽपि भवेदिति ॥४०॥ ___Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002612
Book TitleDanadiprakarana
Original Sutra AuthorSuracharya
AuthorAmrutlal Bhojak, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages78
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy