Book Title: Danadiprakarana
Author(s): Suracharya, Amrutlal Bhojak, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
२४
श्रीमत्सूराचार्यविरचितम् स्वयं सङ्कल्प्य जल्पन्तो दोषदूषितबुद्धयः । प्रेक्षावतां कथं ग्राह्यवचनाः स्युर्द्विजा यतः ॥१४॥ नरोत्तमं निराकृत्यं (त्य) नरपाशं पशुप्रियाः । धर्मोपदेशदातारं वदन्तो विप्रतारकाः ॥१५॥ ततोऽतीतादिकानन्तवस्तुविस्तारवेदकः । उपदेष्टा जिनो युक्तः सर्वसत्त्वहितो यतः ॥१६॥ प्रक्षीणदूषणव्रातः परार्थे[३२-२]कमहाव्रतः । निष्कारणो जगबन्धुर्बन्धुरः करुणाम्बुधिः ॥१७॥ अचिन्त्यपुण्यप्राग्भारः प्राप्तादभुतमहोदयः । सदेवचक्रशकादिचक्रवर्तिनतक्रमः ॥१८॥ समग्रसंशयग्रामध्वान्तविध्वंसनक्षमः । लोकालोकामलालोककेवलापूर्वभास्करः ॥१९॥ कान्तमेकान्ततः सर्वसत्त्वसार्थसुखावहम् । भाषते यज्जगन्नाथो वचनं तत् सदागमः ॥२०॥ पूर्वापराविरुद्धं दृष्टे संवाघबाधितमदृष्टे । क्वचिदप्यतीन्द्रियेऽपि हि संवादादुष्टमाहात्म्यम् ॥२१॥ कान्सो जिनैरनेकान्तो व्याहृतो व्या[३३-१]हतो न हि । जीवादिकः पदार्थो वा धर्मो वाप्यवधादिकः ॥२२॥ उत्पद्यन्ते विपद्यन्ते पदार्थाः पर्ययात्मना । ध्रवा द्रव्यात्मना सर्वे बहिरन्तश्च सर्वदा ॥२३॥ निःसन्देहविपर्यासं पर्यायैः पर्युपासितम् । बाल्यादिभिर्निजं देहं पश्यन्नेकमहर्निशम् ॥२४॥ अन्तरात्मानमप्येकं शोकानन्दादिभिर्युतम् । समस्तवस्तुविस्तारं दोष(दिष्ट) मित्थं त्रयात्मकम् ॥२५॥ 'कथं युक्तमनेकान्तं' दूषयत्येष सौगतः । सङ्गतासङ्गतज्ञानं यदि वाऽनात्मके कुतः ।२६॥ यथा प्रत्यक्षतः सिद्धं पर्यायमनुमन्यसे । द्रव्यं [ ३३-२] तथाऽनुमन्यस्व न मुनेमत्सरः क्षमः ॥२७॥ उत्पत्त्यनन्तरं नष्टे पदार्थे सर्वथा वृथा । तपोनियमदानाद्या बन्धमोक्षौ च दुर्घटौ ॥२८॥
___Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78