Book Title: Danadiprakarana
Author(s): Suracharya, Amrutlal Bhojak, Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 35
________________ २२ श्रीमत्सूराचार्यविरचितं एवमादिमलङ्कारं कारयन्ति जिनस्य ये । निवारयन्ति [२९-२] दुर्वारं नरास्ते दुःखवारणम् ॥४८॥ स्नानं जगत्त्रयपतेर्विधिना विधाय ___ सर्वाङ्गसङ्गतमसङ्गतसर्वतापाः । निर्धतधौतकलधौतरुचोतिरोच्यं श्रेयोऽनुभूय भवभावभिदो भवन्ति ॥४९॥ नश्यन्ति मलतापाचाः कुर्वतां जिनमज्जनम् । आश्चर्य न विचार्यन्ते विभूनां हि विभूतयः ॥५०॥ श्रीखण्डकुङ्कुमरसादिविलेपनानि कप्रसन्मृगमदादिविमिश्रितानि । कृत्वा विभोः सुरभिसुन्दरदीप्रदेहा दिव्याङ्गनाजनमनोऽभिमता रमन्ते ॥५१॥ महामूल्यै[ ३०-१]र्माल्यैः परिमलमिलन्मत्तमधुपैः सपर्या पर्याप्तां सकल जगदाप्तस्य विधिना । विधायोल्लोचाचं विविधमनवद्य सरभसः - सुरस्त्रीभिः सार्धं विलसति शिवं चानुवसति ॥५२॥ भक्ताधैर्भूरिभक्षद्धतजनहृदयैर्मोदकाद्यैः सुखाद्यैः सारैश्चित्रैः पवित्रैः सुरससुरभिभिः पेयचूष्यावलेटः । वेधा सद्भक्तियुक्तं बलिमतुलफलं देवदेवाय दत्त्वा गृह्णीताहाय भव्या निघिमिव विधिना शर्मद[ ३०-२] धर्मराशिम् ॥५३॥ दूराकारितभूरिलोकनिकरां सर्वत्र दत्ताभयां दानानन्दितदीनमार्गणगणां सङ्गीतवा धाद्भुताम् । यात्रां चित्रविलासलास्य सुभगां तुङ्गभ्रमत्स्यन्दनां कृत्वा तीर्थ कृतां भवन्ति कृतिनो नित्यप्रवृत्तोत्सवाः ॥५४॥ ॥चतुर्थोऽवसरोऽवसितः ॥ ____Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78