Book Title: Danadiprakarana
Author(s): Suracharya, Amrutlal Bhojak, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
श्रीमत्सूराचार्यविरचितम् यज्जीवलोके लोकानामकल्याणं विलोक्यते । हिंसाफलमिदं सर्व वदन्ति वदतांवराः ॥३३॥ दहनदम्भनवाहनदोहनै
वंधविबन्धनरोधनकर्तनैः । दमनभेदनखेदनमारण
प्रमुखदुःखगणैर तिदारुणैः ॥३४॥ दन्दह्यन्ते कृपाऽपात्रं विचित्रैः पशवोऽत्र यत् । स जन्तुघातसञ्जातपापपादपपल्लवः ॥३५॥ उदन्यया दुःसह[२०-१]याऽशनायया
नितान्तशीतातपवातपीडया । मृतिं मृगाद्या गुरुभिर्गदवजै
व्रजन्ति तज्जन्तुविघातचेष्टितम् ॥३६॥ असम्प्राप्तप्रतीकाराः सतां कारुण्यगोचराः ।। चिरं जीवन्ति रोगार्ता जीवघाताद्वनेचराः ॥३७॥ प्रपाय्यन्ते तप्तं त्रपु दहनकल्पं दहदहो
प्रस्वाद्यन्ते मांसं निजतनुसमुत्थं सुविरसम् । विपाट्यन्ते चित्रनिशितकरपत्रैरकरुणं
प्रशाय्यन्ते शय्यां प्रतिदहन[२०-२]हेतिप्रतिभयाम् ॥३८॥ कुम्भीपाकेन बध्यन्ते प्रास्फाल्यन्ते शिलातले । पील्यन्ते चित्रयन्त्रेषु परतन्त्रा यथेक्षवः ॥३९॥ इत्थं कदर्थनमनेकविधं सहन्ते
यन्नारका नरककूपकमध्यमग्नाः । कालं प्रभूतमतिमात्रमनन्तरालं
हिंसाफलं तदखिलं खलु खेलतीह ॥४०॥ जन्तूपघातजनितोत्कटपातकस्य
मत्वा कटुं प्रकटमत्र विपाकमेनम् । भव्या भवन्तु भवसम्भवदुःस्वभीताः
प्राणिप्रबन्ध[२१-१]परिरक्षणबद्धकक्षाः ॥४१॥ येषां यत्र समुत्पत्तिस्तेषां तत्र परा रतिः । निम्बकीटस्य निम्बेऽपि रतिर्लोकेऽपि कथ्यते ॥४२॥
____Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78