SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ श्रीमत्सूराचार्यविरचितम् यज्जीवलोके लोकानामकल्याणं विलोक्यते । हिंसाफलमिदं सर्व वदन्ति वदतांवराः ॥३३॥ दहनदम्भनवाहनदोहनै वंधविबन्धनरोधनकर्तनैः । दमनभेदनखेदनमारण प्रमुखदुःखगणैर तिदारुणैः ॥३४॥ दन्दह्यन्ते कृपाऽपात्रं विचित्रैः पशवोऽत्र यत् । स जन्तुघातसञ्जातपापपादपपल्लवः ॥३५॥ उदन्यया दुःसह[२०-१]याऽशनायया नितान्तशीतातपवातपीडया । मृतिं मृगाद्या गुरुभिर्गदवजै व्रजन्ति तज्जन्तुविघातचेष्टितम् ॥३६॥ असम्प्राप्तप्रतीकाराः सतां कारुण्यगोचराः ।। चिरं जीवन्ति रोगार्ता जीवघाताद्वनेचराः ॥३७॥ प्रपाय्यन्ते तप्तं त्रपु दहनकल्पं दहदहो प्रस्वाद्यन्ते मांसं निजतनुसमुत्थं सुविरसम् । विपाट्यन्ते चित्रनिशितकरपत्रैरकरुणं प्रशाय्यन्ते शय्यां प्रतिदहन[२०-२]हेतिप्रतिभयाम् ॥३८॥ कुम्भीपाकेन बध्यन्ते प्रास्फाल्यन्ते शिलातले । पील्यन्ते चित्रयन्त्रेषु परतन्त्रा यथेक्षवः ॥३९॥ इत्थं कदर्थनमनेकविधं सहन्ते यन्नारका नरककूपकमध्यमग्नाः । कालं प्रभूतमतिमात्रमनन्तरालं हिंसाफलं तदखिलं खलु खेलतीह ॥४०॥ जन्तूपघातजनितोत्कटपातकस्य मत्वा कटुं प्रकटमत्र विपाकमेनम् । भव्या भवन्तु भवसम्भवदुःस्वभीताः प्राणिप्रबन्ध[२१-१]परिरक्षणबद्धकक्षाः ॥४१॥ येषां यत्र समुत्पत्तिस्तेषां तत्र परा रतिः । निम्बकीटस्य निम्बेऽपि रतिर्लोकेऽपि कथ्यते ॥४२॥ ____Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002612
Book TitleDanadiprakarana
Original Sutra AuthorSuracharya
AuthorAmrutlal Bhojak, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages78
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy