SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ दानाविप्रकरणम् ज्ञानदानं समीहन्ते महीयांसो महाधियः। महनीया महाभागा विरलाः केऽपि मानवाः ॥२२॥ अन्नादेश्च ग्रहीतारस्तारकास्तारचेतसः । दुर्लभा मुनयोऽन्येऽपि दीनाद्याः कतिचिन्नराः ॥२३॥ सम्पत्यभावादशनादि दातुं ज्ञानं च शक्यं सकलैर्न लोकैः ।। अदीय[ १८-२]मानेऽपि न च दयेऽपि सम्पद्यतेऽस्मिन्नरकादिपातः ॥२४॥ अभयमदत्तं दारुणनरकादिनिपातकारणं तेन । स्ववशमकष्टमनश्वरमनिशं देयं कुशलकामैः ॥२५॥ विषयोऽस्य सर्वजीवा मुक्ताः संसारिणश्च ते द्वेधा । संसारिणो द्विधा स्युः स्थावरजङ्गमविभागेन ॥२३॥ अवनिवने पवनसखः पवनश्च वनस्पतिश्च पञ्चविधाः । स्थावरसंज्ञा ज्ञेया विकलाक्षा द्वित्रिचतुरक्षाः ॥२७॥ पञ्चेन्द्रियैः सहैते जङ्गमनाम्ना समाम्नाताः । इति जीवा निजजीवितसदृशाः सदृशा [सदा] [१९-२]श्याः ॥२८॥ नानादुःसहदुःखदूनमनसो दोना दयाभाजनं, जायन्ते यदतीवतीव्र विविधव्याधिव्यथाव्याकुलाः । दारिद्रयोपहताः पराभवपदं यन्मानिनो मानवा. स्तन्मन्ये परपोडनाविषतरोः पुष्पं फलं चापरम् ॥२९॥ उदग्रतारुण्यजुषां च योषितां यदत्र वैधव्यमहाविडम्बना । भवेदथो दुर्भगतादरिद्रता प्रभृत्यदो निर्दयताविजम्भितम् ॥३०॥ सम्पद्यते मृतापत्या पत्या नित्यं वियुज्यते । पतत्यत्यन्तसापत्न्ये स्त्री निस्त्रिंशतयाऽनिशम् ॥३१॥ इहामगर्भेषु च यान्ति जन्तवो [१९-२] मृति कुमारास्तरुणाश्च दारुणाम् । अपूर्णकामा कमनीयकामिनी मनोरमा निर्दयताप्रसादतः ॥३२॥ ____Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002612
Book TitleDanadiprakarana
Original Sutra AuthorSuracharya
AuthorAmrutlal Bhojak, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages78
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy