SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ १२ श्रीमत्सूराचार्यविरचितं जन्म पुरुषार्थरहितं पुरुषार्थो धर्मवर्जितः पुंसाम् । धर्मश्च दयाविकलो विफलं च विडम्बनं चेदम् ||१०|| विभवविकलो विलासी विकामिनीकश्च कामुकविलासः । रमणी च रू[ १७- १] परहिता न शोभते निर्दयो धर्मः ॥ ११ ॥ विनयविहीनं शिष्यं गुरुमपि तत्त्वोपदेशनाशून्यम् । निज्जीवदयं धर्मं न जातु सन्तः प्रशंसन्ति ॥ १२॥ जीवितव्यादपि श्रेष्ठं प्राणिनां वस्तु नापरम् । तत्साधनं तदर्थं च समस्तमपरं यतः ॥ १३॥ जन्तूनां जीविते दत्ते किं न दत्तमिहापरम् । अपनीतेऽपनीतं वा तन्मूलमखिलं यतः ॥ १४ ॥ पुत्रं मित्रं कलत्राणि जीवितार्थेऽर्थसम्पदम् । त्यजन्ति जन्तवो जातु जीवितं न कथञ्चन ॥ १५ ॥ प्राणेभ्यो नापरं प्रेयो न पुण्यादपरं हितम् । न प्राणिरक्षणादन्यत् पु[ १७-२]ण्यं जगति विद्यते ॥ १६ ॥ राज्यं प्राज्यं ललितललना मत्तमातङ्गपूगान् । भक्तान् पत्तीन् पवनजविनो वाजिनः स्यन्दनाँश्च । भाण्डागारं नगरनिकरं मेदिनीमन्यदिष्ट दिव्यं सर्वे तृणमिव जनो जीवितार्थे जहाति ॥ १७॥ एकच्छत्रं ददात्येको महादाता महीतलम् । प्राणानन्यस्तु वध्यस्य प्राणदाताऽतिवल्लभः || १८ || प्राणत्राणात् परं दानं ज्ञानाभ्यासात् परं तपः । जिनागमात् परं शास्त्रं नास्त्याराध्यं गुरोः परम् ॥ १९ ॥ अभयदाननिदानतया स्तुतं वितरणं तु विदः खलु कोविदैः । [ १८ - १] अशनसद्वसनाद्यपि दीयते जगति जीवितपालनलोलुपैः ॥२०॥ निखिलदानफलं तदिदं मतं मतिमतामभयस्य विहायितम् । सकलसत्त्वसमूह[समी? ]हितं Jain Education International 2010_05 महदतो महितं जगते हितम् ॥२१॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002612
Book TitleDanadiprakarana
Original Sutra AuthorSuracharya
AuthorAmrutlal Bhojak, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages78
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy