________________
दानादिप्रकरणम् पुरन्दरः पुरन्दारै रुदारैः सममामरीम् । अधिष्ठितो यथा मर्तु तथा मोऽपि नेच्छति ॥४३॥ अमेध्यमध्ये कोटस्य सुरेन्द्रस्य सुरालये । समाना जीविताकाङ्क्षा तुल्यं मृत्युभयं द्वयोः ॥४॥ दरिद्रो दुर्भगो दुस्थः सदाधिव्याधिबाधितः । पराश्रितः पराभूतः प्राणी प्राणितुमिच्छति ॥४५॥ येन ये[२१-२]न प्रकारेण प्राणिनां जायते व्यथा । तं तं दूरेण धर्मार्थी वर्जयेद् दुर्जनं यथा ॥४६॥ सकलरोगजराविकला जना
जनितसज्जनमानसरञ्जनाः । यदतुलं विलसन्ति चिरायुष
स्तदखिलं खलु जीवदयाफलम् ॥४७॥ रति रतेरुत्तमरूपसम्पदा
सदा नुदन्त्यः सुखसम्पदा पदम् । दयानुभावेन विभूतिभाजनं
भवन्ति रामाः सुभगाः शुभाङ्गजाः ॥४८॥ कन्दपै नष्टदएँ प्रविदधदधिकं देहकान्या लसन्त्या
लोकानां नेत्रपात्रैर्नव इव रज[२२-१]नीनायकः पीयमानः । मर्त्यः पुत्रैः कलत्रैविरहविरहितो मोदते दोर्घकालं
कल्पः कल्याणहेतोरभयवितरणात्तारतारुण्यपुण्यः ॥४९॥ निासङ्गमनङ्गतापरहिता यत् प्रेयसीसङ्गताः
श्रोशृङ्गाररसैकसागरगता निश्चिन्तचित्ता नराः । नोरोगा जरसा विमुक्तवपुषो जीवन्ति पल्यत्रयं
तन्मन्येऽभयदाननिर्मललसच्चिन्तामणेश्चेष्टितम् ॥५०॥ अनुत्तरनिवासिनो [२२-२] यदतराणि भूयांस्यहो
सदा सुखमनुत्तमं शिवसुखोपमं भुञ्जते । अचिन्त(न्त्य)मवपुःक्रियं विगतपारवश्यव्यथा
व्यतीतविषयस्पृहास्तदतुलं दयायाः फलम् ॥५१॥
____Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org