Book Title: Danadiprakarana
Author(s): Suracharya, Amrutlal Bhojak, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
चतुर्थोऽवसरः अन्नादिदानमिदमस्तनिदानबन्धं
सद्भावनाविधिपरस्य भवप्रबन्धम् । छिन्ते यशो वितनुते कुशलं प्रसूते
दातुः परं जनयतीह जनानुरागम् ॥१॥ आगांसि संस्थगयति प्रकटीकरोति
विद्यादिकं गुणगण गणनां विधत्ते । क्रुद्ध प्रसादयति सादयते विपत्ति
__सम्पत्तिमानयति किं न शुभं बिभर्ति ॥२॥ स्वर्गादिमुख्यसुखसम्पदवाप्तिहेतुः
संसारसागरसमुत्तरणैकसेतुः । दानं जिनेन सदनस्थजनस्य युक्त
मग्रेसर सुकृतसा[२३-२]धनमेतदुक्तम् ॥३॥ शूरः सुरूपः सुभगोऽस्तु वाग्मी
शस्त्राणि शास्त्राणि विदाङ्करोतु । दानं विना दिग्वलयं समस्तं
मो न कीर्त्या धवलं विधत्ते ॥४॥ आहाराद्य भवति ददता साधुदेहं प्रदत्तं
दत्ते देहे सकलमतुलं निर्मलं धर्मकर्म । तस्माद्दानं निरुपममिदं साधनं धर्मराशे
रस्याभावे विरमति यतो मुक्तिमार्गः समग्रः ॥५॥ अकलाकुशले कुलशीलवर्जिते सकल विमलगुणविकले । दातरि कल्पतराविव नरे नु रज्यन्ति जननिवहाः ॥६॥ अशेषदोषसङ्घातं दानमे २४-१]कं शरीरिणाम् । तिरोदधाति वस्तूनां रूपं वान्तप्विोद्धतम् ॥७॥ शोलं कुलं कुशलतां च कलाकलापे
शौचं शुचीनि चरितानि तथाऽपराणि । विश्राणनं तनुमतां नयति प्रकाशं
वस्तूनि रोचिरिव चण्डरुचेः प्रचण्डम् ॥८॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78