SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽवसरः अन्नादिदानमिदमस्तनिदानबन्धं सद्भावनाविधिपरस्य भवप्रबन्धम् । छिन्ते यशो वितनुते कुशलं प्रसूते दातुः परं जनयतीह जनानुरागम् ॥१॥ आगांसि संस्थगयति प्रकटीकरोति विद्यादिकं गुणगण गणनां विधत्ते । क्रुद्ध प्रसादयति सादयते विपत्ति __सम्पत्तिमानयति किं न शुभं बिभर्ति ॥२॥ स्वर्गादिमुख्यसुखसम्पदवाप्तिहेतुः संसारसागरसमुत्तरणैकसेतुः । दानं जिनेन सदनस्थजनस्य युक्त मग्रेसर सुकृतसा[२३-२]धनमेतदुक्तम् ॥३॥ शूरः सुरूपः सुभगोऽस्तु वाग्मी शस्त्राणि शास्त्राणि विदाङ्करोतु । दानं विना दिग्वलयं समस्तं मो न कीर्त्या धवलं विधत्ते ॥४॥ आहाराद्य भवति ददता साधुदेहं प्रदत्तं दत्ते देहे सकलमतुलं निर्मलं धर्मकर्म । तस्माद्दानं निरुपममिदं साधनं धर्मराशे रस्याभावे विरमति यतो मुक्तिमार्गः समग्रः ॥५॥ अकलाकुशले कुलशीलवर्जिते सकल विमलगुणविकले । दातरि कल्पतराविव नरे नु रज्यन्ति जननिवहाः ॥६॥ अशेषदोषसङ्घातं दानमे २४-१]कं शरीरिणाम् । तिरोदधाति वस्तूनां रूपं वान्तप्विोद्धतम् ॥७॥ शोलं कुलं कुशलतां च कलाकलापे शौचं शुचीनि चरितानि तथाऽपराणि । विश्राणनं तनुमतां नयति प्रकाशं वस्तूनि रोचिरिव चण्डरुचेः प्रचण्डम् ॥८॥ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002612
Book TitleDanadiprakarana
Original Sutra AuthorSuracharya
AuthorAmrutlal Bhojak, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages78
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy