Book Title: Chitta Samadhi Jain Yog
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 232
________________ २२१ हठयोगप्रदीपिका ६०. मकरंदं पिबन्भृङ्गो गंधं नापेक्षते यथा । नादासक्तं तथा चित्तं विषयान्न हि कांक्षते ।। ६१. मनोमत्तगजेन्द्रस्य विषयोद्यानचारिणः । नियन्त्रणे समर्थोऽयं निनादनिशितांकुशः॥ मन का चापल्य-नाश ६२. बद्धं तु नादबंधेन मनः संत्यक्तचापलम । प्रयाति सुतरां स्थैर्य छिन्नपक्षः खगो यथा ॥ ६३. सर्वचितां परित्यज्य सावधानेन चेतसा । नाद एवानुसंधेयो योगसाम्राज्यमिच्छता ॥ १४. नादोंतरङ्गसारङ्गबंधने वागरायते । अन्तरङ्गकुरङ्गस्य वधे व्याधायतेऽपि च ॥ ६५. अन्तरङ्गस्य यमिनो वाजिनः परिघायते । नादोपास्तिरतो नित्यमवधार्या हि योगिना ।। १६. बद्धं विमुक्तचांचल्यं नादगंधकजारणात् । __मनः पारदमाप्नोति निरालंबाख्यखेटनम् ।। १७. नादश्रवणत: क्षिप्रमंतरङ्गभुजङ्गमः । विस्मृत्य सर्वमेकानः कुत्रचिन्न हि धावति ॥ १८. काष्ठे प्रवर्तितो वह्निः काष्ठेन सह शाम्यति । नादे प्रवर्तितं चित्तं नादेन सह लीयते ॥ ६६. घंटादिनादसक्तस्तब्धांतःकरण हरिणस्य । प्रहरणमपि सुकरं शरसंधानप्रवीणश्चेत् ॥ व्यापक प्रात्मा का परम पद १००. अनाहतस्य शब्दस्य ध्वनिर्य उपलभ्यते । ध्वनेरन्तर्गतं ज्ञेयं ज्ञेयस्यांतर्गतं मनः । मनस्तत्र लयं याति तद्विष्णोः परमं पदम् ।। १०१. तावदाकाशसङ्कल्पो यावच्छब्दः प्रवर्तते । निःशब्दं तत्परं ब्रह्म परमात्मेति गीयते ॥ १०२. यत्किंचिन्नादरूपेण श्रूयते शक्तिरेव सा । यस्तत्त्वांतो निराकारः स एव परमेश्वरः ॥ १०३. सर्वे हठलयोपाया राजयोगस्य सिद्धये । राजयोगसमारूढ़ः पुरुषः कालवंचकः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288