Book Title: Chitta Samadhi Jain Yog
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati
________________
२२७
मनोनुशासनम्
३. पृष्ठ-पृष्ठान्त-पाणिगः श्यामवर्ण : अपानः ।। ४. सर्वसन्धि-हृदय-नाभिगः श्वेतवर्णः समानः ।। ५. हृदय-कण्ठ-तालु-शिरोन्तरगो रक्तवर्ण उदानः ।। ६. सर्वत्वग्वृत्तिको मेघधनुस्तुल्यवर्णो व्यानः ॥ ७. नासादिषु स्वस्वस्थानेषु रेचक-पूरक-कुम्भकैस्तज्जयः ।। ८. मैं मैं वै रौं लौं तद्ध्यानबीजानि ॥ ६. जठराग्निप्राबल्यं वायुजयः शरीरलाघवञ्च प्राणस्य लब्धयः ।। १०. व्रणरोहण-अस्थिसन्धान-अग्निप्राबल्य-मलमूत्राल्पता व्याधिजयः
अपानसमानयोः ॥ ११. पंककण्टकबाधाऽभाव उदानस्य । १२. ताप पीड़ाऽभाव आरोगित्वञ्च व्यानस्य ।। १३. चन्द्रनाड्या वायुमाकृष्य पादाङ्ग ष्ठान्तं तन्नयनं क्रमशः पुनरुन्नयनं
पुनर्नयनञ्च मनः स्थैर्याय ॥ १४. पादाङ गुष्ठतो लिङ्गपर्यन्तं वायुधारणेन शीघ्रगतिर्बलप्राप्तिश्च ।। १५. नाभौ तद्धारणेन ज्वरादिनाशः ।। १६. जठरे तद्धारणेन कायशुद्धिः ॥ १७. हृदये तद्धारणेन ज्ञानोपलब्धिः । १८. कूर्मनाड्यां तद्धारणेन रोगजराविनाशः ।। १६. कण्ठकूपस्य निम्नभागे स्थिता कुण्डलिसर्पाकारा नाडी कर्मनाडी।। २०. कण्ठकूपे तद्धारणेन क्षुत् तृषाजयः ।। २१. जिह्वाग्रे तद्धारणेन रसज्ञानम् ।। २२. नासाग्रे तद्धारणेन गन्धज्ञानम् ।। २३. चक्षषोस्तद्धारणेन रूपज्ञानम् ॥ २४. कपाले तद्धारणेन क्रोधोपशमः ।। २५. ब्रह्मरन्ध्रे तद्धारणेन अदृश्यदर्शनम् ॥ २६. आस्थाबन्धो दोर्घकालासेवनं नैरन्तयं कर्मविलयश्चात्र हेतुः ।।
२७. मनोनुशासनाद् अतीन्द्रियोपलब्धिः ॥ छठा प्रकरण
१. सर्वथा हिंसाऽनृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिर्महाव्रतम् । २. सर्वभूतेषु संयम अहिंसा ॥ ३. कायवाङ मनसामृजुत्वमविसंवादित्वञ्च सत्यम् ।। ४. परोपरोधाकरणमस्तेयम् ।। ५. वस्तीन्द्रियमनसामुपशमौ ब्रह्मचर्यम् । ६. बाह्य मनसोऽनिवेशनमपरिग्रहः ॥ ७. आलोके भोजनं पानञ्च ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288