Book Title: Chaturharavali Chitrastava
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 4
________________ ॥ द० ॥ चतुर्हारावलीचित्रस्तवः सटीकः ॥ ध्यात्वाऽऽर्हतं महत् तेजः सुखव्याख्यानहेतवे । चतुर्हारावलीचित्र-स्तवटीकां करोम्यहम् ॥१॥ इह तावद् वर्तमानातीतानागत-विहरमान- शाश्वतजिनानां चतस्त्रश्च - तुर्विंशतिका वर्तन्ते । पादस्याऽऽद्यन्तयोर्हारानुकारविन्यस्तै - जिननामवर्णैश्चत्वारः स्तवा: । तत्राऽऽसन्नोपकारित्वात् प्रथमं तावद् वर्त्तमानजिनस्तवं व्याचिख्यासुः पूर्वाऽपश्चिमजिननामाक्षरहारनिबद्धं जिनद्वय - स्तवरूपं प्रथमं वृत्तामाह ॥ स्थापना चेयं श्री नाभिसूनो ! जिनसार्वभौ षध्वज ! त्वन्नतये ममे इजीवरक्षापर ! देहि दे त्रच्चितं स्वं पदमाशु वीं Jain Education International tou वृ ष भ July 2002 म हा वी र व्याख्या : हे श्रीनाभिसूनो ! हे जिनसार्वभौम ! - सामान्यकेवलिचक्रवर्तिन् ! . वृषध्वज-वृषभाङ्क ! त्वन्नतये - त्वन्नमस्काराय मम मे ईहा वाञ्छा, वर्तते इति सम्बन्धः । श्रीनाभिसूनुस्तावदन्योऽपि कोऽपि भविष्यतीति आशंसानिरासार्थं जिनसार्वभौमा :- सर्वेऽप्यर्हन्तः । अतः प्रथमजिननिर्धारणाय वृषभध्वज(वृषध्वज) इति पदम् । इति पूर्वार्द्धनाद्यं जिनं स्तुत्वाऽपरार्द्धेनापश्चिमजिनस्तवमाहहे षड्जीवरक्षापर ! | पृथिव्यप्तेजोवायुवनस्पतित्रसलक्षणाः षट् जीवाः, तेषां रक्षा-पालनं, तत्परः षडजीवरक्षापरः, तस्य सम्बोधनम् । हे वीर-वर्द्धमान ! त्वं आशु - शीघ्रं स्वं निजं पदं मोक्षलक्षणं स्थानं देहि - वितर । किंविशिष्टं पदं ? देवीभर्त्रच्चितः देव्यो देवाङ्गनाः तासां भर्तारी - देवाः तैरचितं पूजितम् । तैरप्याराधितं सर्वोत्कृष्टत्वादित्यर्थः ॥ १ ॥ अथ द्वितीय - त्रयोविंशतितमजिनस्तवमाह ! स्थापना For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29