Book Title: Chaturharavali Chitrastava Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 7
________________ अनुसंधान-२० पुनः कथंभूतं ?, स्थिरपक्ष्मवल्लि-स्थिरा-निश्चला पक्ष्मवल्ली-पक्ष्मलता यस्य तत्तथा । ध्यानस्तिमितत्वात् निश्चलपक्ष्मलताकमित्यर्थः । अथोत्तरार्धव्याख्या:हे प्रभो-स्वामिन् ! मल्लिनाथजिन ! ते-तव प्रभा-कान्ति(वि- पृथिव्यां दीप्यमानाइतस्ततो दीव्यन्ती यमीत्वं-यमुनात्वं अभजद्-अशिश्रियत् । नीलवर्णत्वाद यमुनाप्रवाहानुकारं चकारेत्यर्थः ॥६॥ अथ सप्तमाष्टादशजिनयुगलस्तवमाह । स्थापना मान् सुपार्वोऽपि हि निस्तमा | अ मत्सुखं देशनया चका रंगतः पातकवल्लरी व | ग्रं जनं चारपतिः पुना 4 व्याख्या : श्रीमान्-तीर्थकरलक्ष्मीवान् सुपार्श्व:- सप्तमो जिनः निस्तमा अपि-निर्मो हो ऽपि हि निश्चयेन देशनया- धर्मोपदेशदानेन असुमत्सुखंसर्वप्राणिसौख्यं चकार-कृतवानित्यर्थः । अथोत्तरार्धव्याख्या:-च समुच्चये । अरपति:- अरनाथो जन-लोकं पुनाति--पवित्रयति । कथंभूतोऽरपतिः ?, पारं गतः - संसारसमुद्रपारं प्राप्तः । अपरं कथंभूतः ?, पातकवल्लरीपर्श्वग्रं- पातकान्येव वल्लयः, पर्शोरग्रं पर्श्वग्रं, पातकवल्लरीणां पर्श्वग्रं-पापलताकुठाराग्रम् । इदमाविष्टलिङ्गम् । इत्यर्थः ॥७॥ अथाऽष्टमजिन-सप्तदशजिनस्तवमाह । स्थापना | न्द्रप्रभाऽणोर्हर मेऽघशं यास्मि हत्ते समकुंभिकुं वालतां मुञ्चति नाप्ययं क्त: सुवर्णे त्वयि कुन्थुना | थ व्याख्या : हे चन्द्रप्रभ-अष्टमजिनपते ! त्वं मे-मम अणो:- दुर्बलस्य अवशङ्क पापशङ्गां हर- उद्धर । यताऽस्म्यहं ते- तव हृत्-चेतः समकुम्भिकुन्थु Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29