Book Title: Chaturharavali Chitrastava
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
10
July 2002
नाम सम्बोधने । हे विमल त्रयोदशजिनपते ! अद्य ममाऽऽशा पूर्णा मनोरथोऽपूरि । अहं ज्यया - 1 1- पृथिव्या समं लीनशिरो यथा भवति, एवं अलंअत्यर्थं नतोऽस्मि - क्षितितलनिहितोत्तमाङ्गं यथा भवति एवं प्रणतोऽस्मीत्यर्थः
॥१२॥
-
अथ हारे सर्वोत्कृष्ट नायकमणिः स्यात् । चतुर्विंशतिपत्रप्रतिबद्धपद्मबन्धेन सर्वजिनस्तुतिमाह
नवीनपीनस्वनमानगान किं
नराननानर्व्यनवेन मानसे ।
न मानधा नम्रनरेनका नता
नवं नवं न स्वनता न जैनपाः ||१३||
Jain Education International
13
And
出
F
ऐ *
For Private & Personal Use Only
fe
अतः तत्स्थाने
न २४
Sa
34
\\+FP/A
व्याख्या : जिनो देवता येषां ते जैना- अहद्भक्ताः तान् जैनान् पान्तिरक्षन्ति ये देवास्ते जैनपा - जिना इत्यर्थः । मयेत्यध्याहार्यम् । मया जैनपा जिना नवं-नूतनं नवं स्तवं स्वनता- ब्रुक्ता न न नता अपि तु नता - नमस्कृता एव । द्वौ नञौ प्रकृतमर्थं गमयतः इति । किंविशिष्टा जिना : ? मानसे- चित्ते न मानधा: । मानं दधतीति मानधाः, न मानधा-मानरहिता इत्यर्थः । केन ?, नवीनपीनस्वन- मानगानकिंनराननानर्घ्यनवेन । कोऽर्थः ? उच्यतेः नवीनं नूतनं पीनं- पीवरं स्वनानां - स्वराणां मानं प्रमाणं यत्र तानि नवीनपीनस्वनमानानि, एवंविधानि गानानि येषु किंनराननेषु तानि नवीनपीनस्वनमानगानकिंनराननानि तेषामनर्व्योमहार्थो योऽसौ नवः स्तवः तेन । मानं न कुर्वन्तीत्यर्थः । अपरं किंविशिष्टाः ? नम्रनरेनका: । नराणामिनाः स्वामिनो नरेना:, नम्राणिनमनशीलानि नरनानां कानि मस्तकानि येषां ते नम्रनरेनका नम्रनरेश्वरमौलव इत्यर्थः ॥१३॥
अथ स्तवसमातिचित्रनामार्थान्तरेण कविः स्वनामकथनाय सर्वदेवस्तुतिरूपं वृत्तमाह
इत्थं नायकपद्मरागरुचिरा सत्कण्ठभूषाकरी
मा
गा
www.jainelibrary.org

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29